"पृष्टप्रतिवचनम्()" इति। पृष्टस्य प्रतिवचनम्()ाख्यानं पृष्टप्रतिवचनम्()। प्रतिवचनशब्दोऽयं विरुद्धेऽपि वचने प्रवत्र्तते--विरुद्धं वचनं प्रतिवचनमिति, प्रतिशब्दो ह्रत्र विरोधं द्योतयति, यथा--प्रतिमल्लः, प्रतिगज इति; वीप्सायामपि वत्र्तते--वचनं वचनं प्रतीति प्रतिवचनम्(), "यथार्थे यदव्ययम्()"
२।१।६ इति दीप्सायामव्ययोभावः; समाधानेऽपि वत्र्तते--यदनेनाभिहितं तस्य मया प्रतिवचनं विहिनमिति, समाधिर्विहित इति गम्यते; तत्र "प्रतिवचने" इत्युच्यमाने सर्वत्र प्रसज्येत।
तस्मात्? प्रतिवचनविशेषार्थं पृष्टग्रहणम्()।
पृष्टस्य यत्? प्रतिवचनम्()र्थाख्यानं तत्रैव यथा स्यात्(), अन्यत्र मा भूदिति॥