आहो हकारस्य थकारादेशो भवति झलि परतः। इदमात्थ। किमात्थ। आदेशान्तरकरणं झषस्तथोर्धो ऽधः
८।२।४० इत्यस्य निवृत्त्यर्थम्। झलि इत्येव, आह, आहतुः, आहुः।
हृग्रहोर्भश्छन्दसि हस्येति वक्तव्यम्। गर्दभेन सम्भरति। ग्रभीता। जभ्रिरे। उद्ग्राभं च निग्राभं च ब्रह्म देवा अवीवृधन्।
आहस्थः। "आह" इति षष्ठ()न्तम्। "झलो झलि" इत्यतो झलीत्यनुवर्तते इत्यभिप्रेत्य शेषपूरणेन सूत्रं व्याचष्टे-- झलि परे इति।
आह्? इत्यस्य थकारः स्याज्झलीति फलितम्। "अलोऽन्त्यस्ये"त्यन्त्यस्य भवति। चत्त्र्वमति। आथ्--थेति स्थिते प्रथमथकारस्य "खरि चे"ति चर्त्वे आत्थेति रूपमित्यर्थः। आहादेशस्य अकारान्तत्वे तु हकारादकारस्य थकारादेशे हस्य ढत्वे चर्त्वे आट्त्थ इति स्यादिति बोध्यम्। पञ्चानं णलाद्यभावपक्षे आह----