कृपेः धातोः रेफस्य लकारादेशो भवति। रः इति श्रुतिसामान्यम् उपादीयते। तेन यः केवलो रेफो, यश्च ऋकारस्थः, तयोर् द्वयोरपि ग्रहणम्। लः इत्यपि सामन्यम् एव। ततो ऽयं केवलस्य रेफस्य स्थाने लकारादेशो विधीयते। ऋकारस्य अप्येकदेशविकारद्वारेण लृकारः, एवं च लुटि च क्लृपः
१।३।९३ इत्येवम् आदयो निर्देशा उपपद्यन्ते। कल्प्ता। कल्प्तारौ। कल्प्तारः। चिक्लृप्सति। क्लृप्तः। क्लृप्तवान्। कृपा इत्येततृपेः सम्प्रसारणम् च इति भिदादिषु पाठाद् भवति। तस्य हि कृतसम्प्रसारणस्य लाक्षणिकत्वातिह कृपः इति ग्रहणं न अस्ति। कृपणकृपीटक्रपूरादयो ऽपि क्रपेरेव द्रष्टव्याः। उणादयो बहुलम्
३।३।१ इति वा कृपेरेव लत्वाभावः।
वालमूललघ्वसुरालम् अङ्गुलीनां वा रो लमापद्यत इति वक्तव्यम्। वालः, वारः। मूलम्, मूरम्। लघु, रघु। असुरः, असुलः। अलम्, अरम्। अङ्गुलिः, अङ्गुरिः।
कपिलकादीनां संज्ञाछन्दसोर् वा रो लमापद्यत इति वक्तव्यम्। कपिरकः, कपिलकः। तिल्पिलीकम्, तिर्पिरीकम्। लोमानि, रोमाणि। पांशुरम्, पांशुलम्। कर्म, कल्म। शुक्रः, शुक्लः। रलयोरेकत्वस्मरणम् इति केचित्।
किम् इदम् एकत्वस्मरणमिति? समानविषयत्वम् एव तयोः स्मर्यते इत्यर्थः।
इह र इति वर्ण उपादीयते, ल इत्यस्यादेशस्तादृश एव; ततश्च केवलो यो रेफवरणो नावयवभूतस्तस्यैव तथाभूत एव लकारादेशः स्यात्(), ऋकारस्य तु लकारो न स्यात्(); तयोः स्थान्यादेशभावेन सूत्रोऽनुपादानात्()। ततश्च क्लृप्तः, क्लृप्तवानित्यादि न सिध्येदिति यश्चोदयेत्(), तं प्रत्याह--"र इति सामान्यमुपादीयते" इति।
वर्णत्वावर्णत्वकृतं भेदमुत्सृज्य यत्? सामान्य वर्णात्मिकायामवर्णात्मिकायां च रेफव्यक्तौ वत्र्तते यतस्तयोर्वर्णत्वावर्णत्वादिभेदभिन्नयोद्र्वयोरपि र इत्यभिधानप्रत्ययावभिन्नौ भवतस्तदुपादीयते, न तु वर्णात्मकः--एवं विशेषः। "तेन" इति। सामान्योपादानेन द्वयोरपि ग्रहणं भवतीति।
तस्य सामान्यस्य द्वयोरपि भावात्? "ल इत्यपि सामान्यमेव" इति। उपदीयत इत्यपेक्षते। अत्रापि तेन यश्चकेवलो लकारो यश्च लृकारस्थः,
तयोद्र्वयोरपि ग्रहणमित्येतद्वाच्यम्()? पूर्वानुसारेण गम्यमानार्थत्वान्नोक्तम्()। "ततोऽयम्()" इत्यादि। यत एवं द्वयोरपि रेफयोलकारयोश्च ग्रहणम्(),
तस्मात्? केवलस्य रेफस्य केवलो लकार आदेशो विधीयते। आन्तरतम्यादृकारस्यापि लृकारः। ननु च सत्यपि द्वयोरपि ग्रहणे ऋकारस्य स्थान ऋकारो विधीयत इत्येतन्न लभ्येत, न हि ऋकारस्थो रेफ ऋकारो भवति,
किं तर्हि? तदवयवः; तत्र द्वयोरपि ग्रहणे सति ऋकारस्थस्यापि रेफस्य लृकारस्थो लकारस्त त्सदृश एवान्तरतन्याद्भवतीत्येषोऽर्थो लभ्यते,
न तु ऋकारस्यापि स्थाने लृकारो भवतीत्येषोऽर्थोऽपि? इत्येतस्य चोद्यस्य निराकरणार्थं "एकदेशविकारहद्वारेण" इत्युक्तम्। एकदेश ऋकारस्यावयवो रेफस्तस्य विकार लृकारावयवो लकारः। अथ वा--एकदेश लृकारस्यावयवो लकारः, स एव विकारः। ऋकारस्य रेफस्यैकदेशविकारः। द्वारम्()--मुखम्(), उपाय इति यावत्()। तेन ऋकारस्य स्थान लृकारादेशो विधीयते। यदि ऋकारलृकारस्थयो रेफलकारयोरृकारलृकाराभ्यां पृथग्भावः सम्भवति। तस्मान्नान्तरीयकत्वादेकदेशविकारद्वारेण समस्तस्यैव ऋकारस्य समस्त एव लृकारादेशो विधीयते। अस्यैवार्थस्य द्रढीकरणायाह--"एवं च" इत्यादि। यत एवमेकदेशविकाद्वारेण ऋकारस्य स्थाने लृकारो विधीयते, एवञ्च "लुटि च क्लृपः"
इत्येवमादीनां ग्रहणम्()। तदेवं चोद्यं परिहरता यदुक्तम्()--"नुङ्()विधिलादेशविनामेष्वृकारः ["ऋकारे"--काशिका, पदमञ्जरी च] प्रतिविधातव्यः" [विधातव्यम्()--काशिका, पदमञ्जरी च] (वा।१) इति, तत्रावसरे प्राप्ते लादेशे प्रतिविहितम्()। "कल्प्ता, कल्प्तारौ, कल्प्तारः" इति। तृच्(), अथ वा लुट्()। "चिक्लृप्सति" इति। सन्(), "हलन्ताच्च"
१।२।१० इति कित्वाद्गुणाभावः। "क्लृप्तः, क्लृप्तवान्()" इति। क्तक्तवत्()।
"कृपा" इति।
एतत्कथं सिध्यति? यावताऽत्रापि लत्वेन भवितव्यम्()? इत्यत आह--"कृपेत्येतत्()" इत्यादि। एतेन "क्रप कृपायां गतौ" (धा।पा।
७७१) इत्यस्मात्? "षिद्भिदादिभ्यो॥ऽङ्()" (३।३।
१०४) इत्यङि तत्सन्नियोगेन च सम्प्रसारणे कृते कृपेत्येतद्भवतीति दर्शयन्? कृपेत्यस्य रूपस्य लाक्षणिकत्वं दर्शयति। यद्येवम्(),
ततः किमत्यत्र लत्वं न भवति? इत्याह--"तस्य हि" इत्यादि। यतसतस्य कृतसम्प्रसारणस्य क्रपेः कृपेत्येतद्रूपं भवति, तस्माल्लाक्षणिकत्वम्()। अतो लक्षणप्रतिपदोक्तपरिभाषयैव (व्या।प।३) न गृह्रते इति भवति लप्रसङ्गः।
कृपण, कृपीट, कर्पूरादिषु ह्रौपदेशिकमेव कृपेत्येसद्रूपम्(), न लाक्षणिकम्()। तथा हि "रञ्जे क्वुन्()" ["रजः क्युन्()" इति द।उ।पाठः "रजेः, रञ्जेः" इति पाठान्तरे] (द।उ।५।
२४) इति यः क्वुन्? विहितः,
तस्मिन्? बहुलवचनात्? कृपेरेव विहिते कृपण इति भवति; "कृ()तृ()कृपिभ्यः कीटन्()" ["कृ()तृ()कृपिकम्पिभ्यः कीटन्()" इति द।उ।पाठः "कपिकम्पिभ्यः" इति पाठान्तरम्()] (द।उ।५।३) इति कृपेरेत कोटनि विहिते कृपीट इति भवत; "खर्जिपिञ्जादिभ्य ऊरोलचौ" (द।उ।१०।१०) इत्युरप्रत्यये कृते कर्पूर इति भवतीत्याह--"कृपणकृपीट" इत्यादि।
एवं मन्यते--बहुलवचनात्? क्रपेरेव क्युन्? [क्वुन्? प्रांउ।पाठः] भवति, तत्र चास्य सम्प्रसारणं कृतम्(), "कृ-तृकृपिभ्यः कीटन्()" (द।उ।५।३) इत्यत्रापि कृपिग्रहणमपनीय क्लृपिग्रहणं करिष्यते, सम्प्रसारणं तु बहुलवचनादेव भविष्यति; "खर्जिपिञ्जादिभ्य ऊरोलचौ" इत्यत्रापि आदिग्रहणे कृपिरेव ग्रहीष्यते, सम्प्रसारणं च पूर्ववदेव भविष्यतीति। यद्यपि कृपणकृपाणेत्येवमादीनि रूपाणि स्युः, तदास्य दोष इति दर्शयितुमाह--"जणादयो बहुलमिति वा" इत्यादि।
अत्यन्तभिन्नरूपयोरभिन्नस्वभावत्वमसम्भावयन्? पृच्छति--"किमिदम्()" इत्यादि। "समानविषयत्वम्()" इति। अभिन्नविषयत्वमेकशब्देनात्र विवक्षितम्(), न त्वभिन्नस्वभावत्वमिति दर्शयति। किमर्थं पुनः कृपिमुद्दिश्य लादेशो विधीयते,
न कृपिरेवोद्दिश्येत? गु स्थाने लत्वमात्रं कत्र्तव्यम्(), तच्चावश्यमुकत्र्तव्यमुपल्कारीयतीत्येवमर्थम्()। तथा च--"ऋदुपधाच्चक्लृपि चृतेः
३।१।११० इत्यत्र क्लृपिप्रतिषेधो न कत्र्तव्यो जायते। तेनैवं शक्यम्()--इह ह्रचोक्लृपदिति ऋकारलृकारयोः सवर्णसंज्ञादिधानादृकारस्य विधीयमानमुरत्त्वं लृकारस्यापि स्यात्()। तथा च लृकारस्याप ऋवर्णः प्रसज्यते; ऋकारान्तं तूपदिश्य लत्वे विधीयमाने तस्यापि लृकारस्य लत्वं सिद्धं भवति॥