तस्य द्विरुक्तस्य यत् परं शब्दरूपं तदाम्रेडितसंज्ञं भवति। चौर चौर ३, वृषल वृषल ३, दस्यो दस्यो ३ घातयिष्यामि त्वा, बन्धयिष्यामि त्वा। आम्रेडितप्रदेशाः आम्रेडितं भर्त्सने
८।२।९५ इत्येवम् आदयः।
"तस्य" इत्वयवषष्ठी।
तस्य द्विरुक्तस्य यत्? परमवयवभूतं शब्दरूपं तस्याभ्रेडितसंज्ञा विधीयते।
अथ द्विष्प्रयोगद्विर्वचनपक्षे कथं परमिति व्यपदेशः? कथञ्च न स्यात्()? तस्य भेदनिबन्धनत्वात्()। परव्यपदेशो हि भेदनिबन्धनः। न च द्विष्प्रयोगद्विर्वचनपक्षे शब्दभेदोऽस्ति, आवृत्तिमात्रं हि तत्र भिद्यते,
न शब्दः? नैष दोषः; अभिन्नस्यापि शब्दस्य धर्मभेदादौपचारिकमन्यत्वं भविष्यति। भवति हि धर्मभेदादभिन्नेऽपि वस्तुनि भेदव्यवहारः।
तथा हि वक्तारो वदन्ति--परुद्भवान्? पटुरासीत्? पटुतरश्चैषमोऽन्य एवासि संवृत्त इति। "चौर चौर" इति। "एङ्ह्यस्वात्सम्बुद्धेः"
६।१।६७ इति सुलोपः, "वाक्यादेरामन्त्रितस्य"
८।१।८ इत्यादिना भत्र्सने द्विर्वचनम्(), "आर्म्रेडितं भत्र्सने"
८।२।९५ इति प्लुतः। "दस्यो दस्यो" इति। "सम्बुद्धौ च"
७।३।१०६ इति गुणः।
अथ तस्यग्रहणं किमर्थम्(), यावता "द्वे" इत्यनुवर्त्तिष्यते,
तत्रैवं विज्ञायते--द्वयोर्यत्? परमिति? नैवं शक्यम्(); "एकाचो द्वे प्रथमस्य"
६।१।१ इत्यत्रापि परमाम्रेडितसंज्ञं स्यात्()। तस्यग्रहणे सति यत्रैतद्वक्ष्यमाणं द्विर्वचनं तस्य परमिति विज्ञायते। तेन न भवत्यतिप्रसङ्गः।
आम्रेडितमिति महत्याः संज्ञायाः करणमन्वर्थसंज्ञाविज्ञानार्थम्()। आम्रेड()त आधिक्येनोच्यत इत्याम्रेडितम्()। तेनेहापि भवति--अहो दर्शनीया अहो दर्शनीया, मह्रं रोचते मह्रं रोचत इति। दर्शनीयत्वस्य रुचेश्चाधिक्यं द्योतयितुमत्र द्रष्टव्यं द्विर्वचनम्()। एतदेव महत्याः संज्ञायाः करणं ज्ञापकम्()--आधिक्याभिधाने द्विर्वचनं भवतीति॥
अभियुक्ताश्चाहुः--"क्वचित्प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद्विभाषा क्वचिदन्यदेव। शिष्टप्रयोगाननुसृत्य लोके विज्ञेयमेतद्बहुलग्रहे तु।" इति। ननु किमाम्रेडितं नाम?, तत्राह--तस्य परमाम्रेडितम्। "सर्वस्य द्वे" इत्यनन्तरमिदं सूत्रं पठ()ते। ततश्च "तस्ये"त्यनेन द्विरुक्तस्येति लभ्यते। अवयववाचिपरशब्दयोगे अत एव ज्ञापकात्षष्ठी। तदाह--द्विरुक्तस्येत्यादिना। पटत्पटेतीति। पटत् पटत् इति इति स्थिते तकारस्येकारस्य च पररूपमिकारः। ततश्च आद्गुणः।