सूत्रम्
आबाधे च॥ ८।१।१०
काशिका-वृत्तिः
आबाधे च ८।१।१०
आबाधनमाबाधः, पीडा प्रयोक्तृधर्मः, न अभिधेयधर्मः। तत्र वर्तमानस्य द्वे भवतः, बहुव्रीहिवच्चास्य कार्यं भवति। गतगतः। नष्टनष्टः। पतितपतितः। गतगता। नष्टनष्टा। पतितपतिता। प्रियस्य चिरगमनादिना पीड्यमानः कश्चिदेवम् प्रयुङ्क्ते प्रयोक्ता।
न्यासः
आबाधे च। , ८।१।१०
"आबाधनभावाधः" इति। भावे घञ्()। यद्यत्राबाधोऽभिधेयधर्म आश्रीयते, तदा बाधितपीडिताविशब्दानामेव द्विर्वचनं स्यात्(), न तु गतादिशब्दानाम्()। प्रयोक्तृधर्म आश्रीयमाणे सर्वत्र भवति। तस्माद्व्याप्तिव्यायात्? प्रयोक्तृधर्म एवाश्रीयते, इत्याह--"प्रयोक्तृधर्मः" इति। "तत्र वत्र्तमानस्य" इति। द्विर्वचनप्रतिपत्तिद्वारेण, बहुव्रीहिवद्भावप्रतिपत्तिद्वारेण च तत्प्रकाशनात्? तत्र तस्य वृत्तिर्वेदितव्या, न तु तदभिधानात्()। न हि गतादयः शब्दा कथञ्चिदाबाधनमभिदधति। चकारो वाक्यभेदमाचष्टे। तेन द्वयमत्र विधीयते--एकेन वाक्येन द्विर्वचनम्(), अपरेण च बहुव्रीहिवद्भावः। "गतगतः" इत्यादौ पूर्ववत्? सोर्लुक्()। "गतगता" इत्यादौ तु पुंवद्भावः पूर्ववदेव। "प्रियस्य गमनादिना" इत्यादि। एतेन प्रयोक्तृधर्मताऽबाधस्येति दर्शयति। आदिशब्देन विनाशादेग्र्रहणम्()॥
बाल-मनोरमा
आबाधे च , ८।१।१०
आबाधे च। आबाधः=पीडा। तदाह--पीडायामिति। गतगत इति। "प्रिया विना काल" इति शेषः। आबाधं दर्शयितुमाह--विरहादिति। स्त्रीवियोगादित्यर्थः। बहुव्रीहिवद्भावादिति। "गत" इत्यस्य द्विर्वचने सति बहुव्रीहिवत्त्वात्समुदायस्य प्रातिपदिकत्वेन सुपोर्लुकि समुदायात्सुबुत्पत्तिरित्यर्थः। गतगतेति। "ग्रिये"ति शेषः। इयमपि स्त्रीविरहात्पीड()मानस्यौक्तिः। एकस्या एव गमनकर्त्र्या द्विः कथनात्समानाधिकरणं स्त्रीलिङ्गमुत्तरपदमिति "स्त्रियाः पुंव"दिति पुंवत्त्वम्, बहुव्रीहिवत्त्वादुत्तरपदत्वस्यापि सत्त्वात्। तदाह--इह पुंवद्भाव इति।
तत्त्व-बोधिनी
आबाधे च १५९५, ८।१।१०
आबाधे च ष। इहेति। "बहुव्रीहि वद्भावा"दित्यनुषज्यते। तथा च "स्त्रियाः पुंव"दिति वर्तते। न च द्विरुक्तस्य परमुत्तरपदं नेति वाच्यं, "बहुव्रीहि व"दित्यतिदेशबलेनैव उत्तरपदत्वस्यापि लाभात्। ननु बहुव्रीहिवद्भावेनोत्तरपदत्वलाभे सति "नने"त्यत्र "नलोपो नञः" इथि कस्मान्न भवति। उच्यते---"न लोपो नञः"इत्यत्र उत्तरपदे इति [प्र]वर्तते, नञ इति च कार्यिणो निर्देशः, तत्र साक्षाच्छिष्टेन कार्यित्वेन नञो निमित्तभावो बाध्यते। यथा मद्रह्यदो भद्रह्यद इति। अत्र रेफस्य "अचो रहाभ्यामि"ति द्वित्वप्रसङ्गे आकरे उक्तं "नेमौ रहौ कार्यिणौ किं तु निमित्तमेतौ द्विर्वचनस्ये"ति। नन्वेवमपि "धूर्धूः" "पन्थाःपन्थाः" इत्यादौ "ऋक्पूरब्धू"रिति समासान्तः स्यादिति चेन्। "समासाच्च तद्विषया"दित्यतः समासादित्यनुवर्तमाने "समासान्ताः"इति पुनः समासग्रहणं हि समासाधिकारविहितो यः समासस्तत्परिग्रहार्थम्। तेनातिदेशिके समासे समासान्तानामप्रवृत्तिरति दिक्।