ऋवर्णान्तस्य अभ्यासस्य अकारादेशो भवति। ववृते। ववृधे। शशृधे। नर्नर्ति, नरिनर्ति, नरीनर्ति इत्येवम् आदौ अभ्यासविकारेषु अपवादो न उत्सर्गान् विधीन् बाधते इति उः अदत्वे कृते रुगादय आगमाः क्रियन्ते।
अभ्यासऋवर्णस्यात् प्रत्यये। रपरः। हलादिः शेषः। वृद्धिः। गोपायाञ्चकार। द्वित्वात्परत्वाद्यणि प्राप्ते -----।
छन्दसीति निवृत्तम्(); पूर्वसूत्रे च कारानुकृष्टत्वात्()। "ववृते, ववृधे, शशृधे" इति। "वृतु वत्र्तने" (धा।पा।७५८), "वृधु वृद्धौ" (धा।पा।७५९), "शृधु शब्दकुत्सायाम्()" (धा।पा।७६०), लिट्(); तत्राद्ययोरनुदात्तेत्त्वादात्मनेपदम्(), इतरत्र स्वरितेत्त्वात्(); पूर्ववदेव द्विर्वचनम्(), हलादिशेषे च कृत ऋवर्णान्ततयामुपजातायामद्भावः, रपरत्वम्(), हलादिशेषः।
"नर्नर्त्ति, नरिनर्त्ति, नरीनर्त्ति" इत्येवमादौ "ऋदुपधस्य च"
७।४।९० इति, "रुग्रिकौ च लुकि"
७।४।९१ इति वा परत्वादपवादेषु कृतेषु रीगादिषु ऋवर्णान्ताभावादनेन न भवितव्यमिति कस्यचिद्भ्रान्तिः स्यात्(), अतस्तां निराकर्तुमाह--"नर्नर्ति" इति॥
उरत्। उः--अदिति छेदः। "ऋ"इत्यस्य उरिति षष्ठ()एकवचनम्। "अत्र लोपोऽभ्यासस्ये"त्यस्मादभ्यासस्येत्यनुवर्तते। अङ्गस्येत्यधिकृतं। तद्वशात्प्रत्यये परत इति लभ्यते। प्रत्यये परत एव अङ्गसंज्ञाविधानात्। तदाह--अभ्यासऋवर्णस्येत्यादिना। रपरत्वमिति। अभ्यासऋवर्णादेशस्याऽकारस्योरण्()रपर इति रपरत्वमित्यर्थः। तथा च कर् कृ ए इति स्थिते। हलादिः शेष इति। रेफस्य निवृत्तिरिति भावः। प्रत्यये किमिति। अङ्गेनैव प्रत्ययस्याक्षिप्तत्वात्प्रत्यये परत इति किमर्थमित्यर्थः। वव्रश्चेति। "ओ व्रश्चू च्छेदने" , लिटि णल् द्वित्वं। लिट()भ्यासस्येत्यभ्यासरेफस्य सम्प्रसारणमृकारः। उरत्। रपरत्वम्। हलादिः। शेषः। वव्रश्चेति रूपम्। अत्र अभ्यासऋवर्णस्य रेफस्थानिकस्य सम्प्रसारणस्य य उरदत्वसम्पन्नोऽकारस्तस्य अचः परस्मिन्निति स्थानिवत्त्वेन सम्प्रसारणतया तस्मिन्परे वकारस्य "न सम्प्रसारणे सम्प्रसारण"मिति निषेधान्न सम्प्रसारममिति स्थितिः। उरदित्यत्र "प्रत्यये परत" इत्यनुक्तौ तु सम्प्रसारणभूतऋकारस्थानिकस्य अकारस्य परनिमित्तकत्वाऽभावेन स्थानिवत्त्वाऽप्रसक्तेः सम्प्रसारणत्वाऽभावात्तस्मिन् परतो "न सम्प्रसारणे सम्प्रसारण"मिति निषेधो न स्यादिति भावः।