रेफादौ च प्रत्यये परतः तासस्त्योः सकारास्य लोपो भवति। कर्तारौ। कर्तारः। अध्येतारौ। अध्येतारः।
रादौ प्रत्यये तथा। भवितारौ। भवितारः। भवितासि। भवितास्थः। भवितास्थ। भवितास्मि। भवितास्वः। भवितास्मः।
"कत्र्तारौ, कत्र्तारः" इति। लुट्(), तस्(), झिः, "लुटः प्रथमस्य डारौरसः"
२।४।८५ इति तसो झेश्च यथाक्रमं रौरसौ भवतः। "अध्येतारौ, अध्येतारः" इति।
इङो ङित्त्वादत्मनेपदम्? आताम्(), झः तयोश्च पूर्ववद्रौरसौ। अस्ते रेफादिप्रत्ययो न सम्भवतीति नास्त्युदाहरणम्()। केचित्तु--"व्यतिरे" इत्युदाहरणं दर्शयन्ति; एतच्च च्छब्दस्येवं प्रयोगो यद्यसति ततो युक्तम्(), अथ तु नास्त्येवं सत्ययुक्तम्()। "इरयो रे"
६।४।७६ इति रेभावश्छन्दसि विधीयते, "यथादृष्टानुविधिश्छन्दसि" (व्या।प।६८) इति। चकारः पूर्वापेक्षया समुच्चयार्थः॥