च्विप्रत्यये परतो ऽजन्तस्य अङ्गस्य दीर्घो भवति। शुचीकरोति। शुचीभवति। शुचीस्यात्। पटूकरोति। पटूभवति। पटूस्यात्।
अथ "शुचीभवती"ति "वक्ष्यन्नाह--च्वौ च। दीर्घः स्यादिति। "अकृत्सार्वधातुकयो"रित्यतस्तदनुवृत्तेरिति भावः। अव्ययस्येति। अव्ययस्य "च्वौ चे"ति दीर्घो नेत्यर्थः। तेन स्वस्तिस्यादित्यत्र च्वौ न दीर्घ इति भावः। तन्निरमूलमिति। भाष्यावदृष्टत्वादिति भावः। तर्हि "स्वस्ति स्या"दिति न स्यात्, दीर्घप्रसङ्गादित्यत आह--स्वस्ति स्यादिति त्विति। ननु महाविभाषया दीर्घाऽभावे स्वस्ति स्यादिति सिद्धावपि, कदाचित्स्वस्ती स्यादिति दीर्घो दुर्वार इति शङ्कते--स्वस्तीस्यादित्यपि पक्षे स्यादिति। इष्टापत्तिरित्याह--अस्त्विति। "दीर्घतदभावाभ्यां रूपद्वय"मिति शेषः। प्रामाणिकत्वादुभयमप्यादर्तव्यमिति। भावः। ननु शिष्टानङ्गीकारात्कथं दीर्घपाठादर इत्यत आह-यदि नेष्यते इत्यादि। मातृशब्दाच्च्विप्रत्यये विशेषमाह--रीङृत #इति।