दुह दिह लिह गुह इत्येतेषाम् अङ्गानाम् आत्मनेपदे दन्त्यादौ परतः क्षस्य वा लुग् भवति। अदुग्ध, अधुक्षत। अधुग्धाः, अधुक्षथाः। अदुग्ध्वम्, अधुक्षध्वम्। अदुह्वहि, अधुक्षावहि। दिह अदिग्ध, अधिक्षत। लिह अलीढ, अलिक्षत। गुह न्यगूढ, न्यघुक्षत।
दुहादीनाम् इति किम्? व्यत्यपुक्षत।
आत्मनेपदे इति किम्? अधुक्षत्।
दन्त्ये इति किम्? अधुक्षामहि। लोप इति वर्तमाने लुग्ग्रहणं सर्वादेशार्थम्। तच् च बह्यर्थम्। अन्यत्र तु अन्त्यस्य एव लोपे कृते झलो झलि
८।२।२६ इति सकारलोपेन सिध्यति। स्थानिवद्भावो ऽपि अकारलोपस्य न अस्ति, पूर्वत्र असिद्धे न स्थानिवतिति। दन्त्योष्ठो ऽपि वकारो दन्त्य इति गृह्यते। यदि स न गृह्येत ततः तौग्रहणम् एव अत्र कृतं स्यात्।
"दुह प्रपूरणे" (धा।पा।१०१४), "दिह उपचये" (धा।पा।१०१५), "लिह आस्वादने" (धा।पा।१०१६), "गुहू संवरणे" (धा।पा।८९६)--सर्वं एते स्वरितेतः।
स्वरितेत्त्वात्? "स्वरितिञितः कत्र्रभिप्राये क्रियाफके"
१।३।७२ इत्यामनेपदिनः। "अदुग्ध" इति। पूववद्धकरः, "झषस्तथोर्धोऽयः"
८।२।४० इति तकारस्य धकारः,
"झलां जश्? झशि"
८।४।५२ इति धकारस्य गकारः। "अदुग्धाम्()" इति। थास्(),
पूर्ववद्? धत्वादि। "अदुग्ध्वम्()" इति। ध्वम्()। "अदुह्वहि" इति। वहिः। "अदिग्ध" इति।
पूर्ववद्? घत्वादि। "अलीढ" इति। हकारसय "हो ढः"
८।२।३१ इति ढकारः पूर्ववत्(), तकारस्य धत्वं ष्टुत्वञ्च, "ढो ढे लोपः"
८।३।१३, "ढ्रलोपः पूरवस्य
६।३।११० इत्यादिना दीर्घः। "न्यगूढ" इति। एतदपि पूर्वेण तुल्यम्()।
"व्यत्यपुक्षत" इति। "पुष पुष्टौ" (धा।पा।११८२) व्यतिपूर्वः। "कत्र्तरि कर्मण्यतिहारे"
१।३।१४ इत्यातमनेपदम्(), "षढोः कः सि"
८।२।४१ इति षकारस्य ककारः।
"अजुक्षामाहि" इति। महिङ।
अथ लुग्ग्रहणं किमर्थम्(),
यावता लोप इत्यनुवत्र्तत एव? इत्याह--"लोप इति वत्र्तमाने" इति।
यदि लोपग्रहणमनुवर्त्त्य लोपो विधीयते तत्? "अलोऽन्त्यस्य"
१।१।५१ इत्यन्त्यस्य स्यात्()। कि तु सर्वस्यैव भवति; प्रत्ययादर्शनस्य लुक्संज्ञाविधानात्()।
तस्मात्? सर्वस्य क्सस्य लोपो यथा स्यादित्येवमर्थं लुग्ग्रहणं कृतम्()। "वह्रर्थम्()" इति। उत्तमपुरुषद्विवचनार्थमित्यर्थः।
वहिरर्थः प्रयोजनं यस्य तत्? तथोक्तम्()।
अथान्यार्थं कस्मान्न भवति? इत्याह--"अन्यत्र तु" इत्यादि। यदात्मनेपदं दन्त्यादि तत्सर्वं झलाद्येव। तत्रान्त्यस्यैवाकारस्य लोपे कृते "झलो झलि"
८।२।२६ इति सकारसय लोपेनेष्टं सिध्यत्येव। स्यादेतत्()--अन्यत्रापि लुका विना न सिध्यति;
अकारलोपस्य सकारलोपे कत्र्तव्ये "अचः परस्मिन्? पूर्वविधौ" (१।१।
५७) इति स्थानिवदभावादिति? अत आह--"स्थानिवद्भावोऽप्यकारलोपस्य नास्ति" इति।
कस्मान्नास्ति? इत्याह--"पूर्वत्रासिद्धे न स्थानिवत्()" इति। तस्मान्नान्यार्थं लुग्ग्रहणम्(), अपि तु वह्रर्थमेव।
अत्र ह्रझलादित्वात्? "झलो झलि"
८।२।२६ इति सकारलोपो नास्तीति न सिध्यति।
"ननु च क्रियमाणेऽपि लुग्ग्रहणे वहौ लुका न भवितव्यमेव, अदन्त्यादित्वात्(),
न हि दन्त्यौष्ठ()ओ वकारो दन्त्यग्रहणेन गुह्रते? इत्याह--"दन्त्यौष्ठ()ओऽपि" इत्यादि। अत्रैव हेतुमाह--"यदि" इत्यादि। यदि दन्त्यौष्ठ्यौ दकारो दन्त्यग्रहणेन न गृह्रेत्(), तदा तावित्येवं ब्राऊयात्(), न दन्त्य इति। तावप्युच्यमाने सर्वमिष्टं सिध्यत्येव। न हि तदर्गादन्यद्दन्त्यमात्मनेपदस्यास्ति। तस्माद्दन्त्यौष्ठ()ओऽपि वकारो दन्त्यग्रहणेन गृह्रते। तत्रेदं चोद्यते--यदुक्तम्()--"अन्यत्र ह्रन्त्यस्यैव लोपे कृते "झलो झलि"
८।२।२६ इति सकारलोपेनेष्टं सिद्ध्यत्येवेति, तदयुक्तम्(); न हि "झलो झलि"
८।२।२६ इत्यनेन सकारमात्रस्य लोपो विधियते,
किं तर्हि? सिचः,
तथा हि तत्रैव वक्ष्यति--"अयमप सिच एव लोपः"" इति? नैतदस्ति; सिज्ग्रहणस्य च्ल्यादेशस्योपलक्षणार्थत्वाच्च्लेर्थ आदेशस्तत्सम्बन्धिन एव सकारस्य लोपो भवतीत्ययं तत्रार्थो वेदितव्यः॥