घुसंज्ञकानां लेटि परतो वा लोपो भवति। दधद्रत्नानि दाशुषे। सोमो ददद् गन्धर्वाय। न च भवति। यदग्निरग्नये ददात्। आडागमे सति लोपे ऽपि ददातिति सिद्धं भवति। तत्र वावचनं विस्पष्टार्थम्, एषा हि कस्यचिदाशङ्का स्यात्, ददातित्येव नित्ये प्राप्ते लोपः आरभ्य माणो बाधते एव एतद् रूपम् इति।
"ददन्()" इति।
"डुदाञ्? दाने" (धा।पा।१०९१),
लिङर्थे लेट्? ३।४।९७, झेरन्तादेशः,
७।१।३, "इतश्च लोपः परस्मैपदेषु"
३।४।९७ इतीकारलोपः, "लेटोऽडाटौ"
३।४।९४ इत्यट्, शप्(),
तस्य जुहोत्यादित्वात्? श्लुः "श्लौ"
६।१।१० इति द्विर्वचनम्(), संयोगान्तलोपः,
८।२।२३ "ङमो ह्यस्वावचि ङमुण्णित्यम्()"
८।३।३२ इति ङ्मुडागमः। "सोमोददद्गन्धर्वाय" इति। ददातेस्पिप्(), शेषं पुर्ववत्()। "यदग्निरग्नये ददात्()" इति।
ददा+आदिति स्थितेऽकः सवर्णे दीर्घत्वम्? ६।१।९७ शेषं पूर्ववत्()।
यद्याडागमे ["यद्यडागमे"--प्रांउ।पाठः] कृते सत्यपि लोपे च ददादिति सिध्यति,
किमर्थं तर्हि वेत्युच्यते? इत्याह--"तत्र" इत्यादि। स्यादेतत्()--विस्ष्टार्थं तर्हि वाग्रहणणयुक्तम्();
वदादित्यस्य रूपस्यासिदिं()ध प्रत्याशङ्काया अभावात्()? इत्यत आह--"एषा हि" इत्यादि। सुबोधम्()।