किमर्थं पुनरिदमुच्यते, यावता "शद्लृ शातने" (धा।पा।
१४२८) इत्यस्मादेव निपातनात्? तकारो भविष्यतीति? गतेरन्यत्र यथा स्यात्? गतौ मा भूदिति चेत्()? न; शातनशब्दो हि गतेरन्यमर्थमाचष्टे। एवं तर्हि एतज्ज्ञापयति---"अबाधकान्यपि निपातनानि भवन्ति" (पु।ल।प।वृ।९९) इति।
तेन पुराशब्दात्? "सायञ्चिरम्()"
४।३।२३ इत्यादिना विधीयमानयोष्ट()उट()उलोः "पुराणप्रोक्तेषु"
४।३।१०५ इति निपातनेन तुदो बाधनं न भवतीतित। तेन पुरातनमित्यपि सिद्धं भवति॥