अथ औदन्ताः। ग्लौशब्दश्चन्द्रवाची। "ग्लौर्मृगाङ्कः क्लानिधिः" इत्यमरः। तस्य हलादौ न कश्चिद्विकारः। अचि तु आवादेश इति मत्त्वाह--मलौर्ग्लावौ ग्लाव इति। ग्लावम्, ग्लावौ, ग्लावः। ग्लावा, ग्लौभ्याम्, ग्लौभिः। ग्लावे, ग्लौभ्याम्, ग्लौभ्यः। ग्लावः, ग्लौभ्याम्, ग्लौभ्यः। ग्लावः, ग्लावोः, ग्लावाम्। ग्लावि,ग्लावोः,ग्लौषु।
ननु "औतोऽम्शसोः" इत्यत्र ओद्ग्रहणेन सावण्र्यादौकारस्यापि ग्रहणादम्शसोर्ग्लौशब्दस्याऽऽत्वं कुतो न स्यादित्यत आह--औतोऽम्()शसोरितीह न प्रवर्तत इति। ऐऔजित्यादिग्रन्थस्तु संज्ञाप्रकरणे व्याख्यातः। एवं जनानवतीति जनौः। क्विप्। ज्वरत्वरेत्यूठ। एत्येधतीति वृद्धिः। जनावौ। जनाव इत्यादि। इत्यौदन्ताः॥
*****इति बालमनोरमायामजन्ताः पुंलिङ्गाः*****
*****अथ अजन्तस्त्रीलिङ्ग प्रकरणम्*****
रमेति। रमते इति रमा। "रमि क्रीडायाम्" पचाद्यचि "अजाद्यतष्टाप्"। प्रत्ययान्तत्वादप्रातिपदिकत्वेऽपि "ङ्याप्प्रातिपदिका"दिति ङ्यापोः पृथग्ग्रहणात्, लिङ्गविशिष्टपरिभाषया वा स्वादयः। "हल्ङ्या"बिति सुलोपः।