तिसृ चतसृ इत्येतयोः ऋतः स्थाने रेफादेशो भवति अजादौ विभक्तौ परतः। तिस्रः तिष्ठन्ति। तिस्रः पश्य। चतस्रः तिष्ठन्ति। चतस्रः पश्य। प्रियतिस्रः आनय। प्रियातस्रः आनय। प्रियतिस्रः स्वम्। प्रियचतस्रः स्वम्। प्रियतिस्रि निधेहि। प्रियचतस्रि निर्धेहि। पूर्वसवर्णोत्त्वङिसर्वनामस्थानगुणानाम् अपवादः। परमपि ङिसर्वनामस्थानगुणं पूर्वविप्रतिषेधेन बाधते। अचि इति किम्? तिसृभिः। चतसृभिः। ऋतः इति किम्? तिसृचतस्रोः प्रतिपत्त्यर्थम्, अन्यथा हि तदपवादः त्रिचतुरोरेव अयम् आदेशो विज्ञायेत।
तिसृ चतसृ एतयोरृकारस्य रेफादेशः स्यादचि। गुणदीर्घोत्वानामपवादः। तिस्रः। तिसृभ्यः। तिसृभ्यः। आमि नुट्॥
किमर्थं पुनरचि रादेश उच्यते,
न यणादेशेन सिद्धत्वात्()? इत्यत आह--"पूर्वसवर्ण" इत्यादि।
असति ह्रेतस्मिन्? सूत्रे शसि "प्रथमयोः पूर्वसवर्णः"
६।१।९८ इति पूर्वसवर्णः स्यात्(), "ङसिङसोश्च"
६।१।१०६ "ऋत उत्()"
६।१।१०७ इत्युत्त्वञ्च, सर्वनामस्थाने ङौ च "ऋतो ङिसर्वनामस्थानयोः"
७।३।११० गुणः। तस्मादेतेषामपवादोऽयं रेफादेश आरभ्यते। ननु युक्तः पूर्वसवर्णस्योत्त्वस्य चेहायमपवादो रेफादेशः, गुणस्य त्वयुक्तः; यस्मात्(),
"मध्येपवादाः पूर्वान्? विधीन्? बाधन्ते नोत्तरान्()" (व्या।प।
१०) इति? अत आह--"परमपि" इत्यादि। गुणस्यावकाशः--कत्र्तारौ, हत्र्तारौ, कत्र्तरीति; रेफस्यावकाशः--तिस्लः पश्येति, तिरुआस्तिष्ठन्तीति; प्रियतिरिउआ निधेहीति।
अत्रोभयप्रसङ्गे पूर्वविप्रतिषेधेन रेफो भवन्? परमपि ङिसर्वनामस्थानगुणं बाधते।
"ऋत इति किम्()" इति। एवं मन्यते--तिसृचतसृशब्दावहानुवर्त्तिष्येते। तौ च ऋकारान्तावेवेत्यलोऽन्त्यपरिभाषया
१।१।५१ ऋत एव भविष्यति। तिसृचतस्लोः प्रतिपत्त्यर्थम्()" इति। तिसृचतस--इत्येतयोरच्यपि परतस्त्रिचतुरोः स्थाने प्रतिपत्तिः=प्राप्तिर्यथा स्यादित्येवमर्थं "ऋतः" इत्युच्यम्()। "अन्यथा हि" इत्यादि। यदि "ऋतः" इति नोच्येत, तदा तयोरेव तिसृचतरुआओरयमपवादो विज्ञायेत, ततश्चाजादौ तौ न स्याताम्()॥
अचि र ऋतः। पूर्वसूत्रात्तिसृचतसृ इत्यनुवर्तते। तच्चेह लुप्तषष्ठीकमाश्रीयते। तदाह-तिसृ इत्यादिना। ननु "इको यणची"त्येव सिद्धमित्यत आह-गुणदीर्घोत्त्वानामपवाद इति। "ऋतो ङी"ति गुणस्य, "प्रथमयो"रिति पूर्वसवर्णदीर्घस्य, "ऋत उ"दित्त्युत्त्वस्य च रत्वमपवाद इत्यर्थः। तिरुआ इति। जश्शसोः रूपम्। तत्र जसि "ऋतो ङी"ति गुणस्य रत्वमपवादः। शसि तु "प्रथमयोः" इति पूर्वसवर्णदीर्घस्य रत्वमपवादः। आमीति। तिसृ-आम् इति स्थिते नुटं बाधित्वा "अचि र ऋतः" इति रत्वे तिरुआआमिति प्राप्ते "नुमचिरतृज्वद्भावगुणेभ्यो नुट् पूर्वविप्रतिषेधेने"ति रत्वं बाधित्वा नुडित्यर्थः।
गुणदीर्घोत्वानामिति। तिस्त्रस्तिष्ठन्ती त्यत्र "ऋतो ङी"ति गुणस्य रत्वमंपवादः। "तिरुआः पश्ये"त्यत्र तु "प्रथमयो"रिति पूर्वसवर्णदीर्घस्यापवादः। "प्रियतिरुआ आगतः""प्रियतिरुआः स्व"मित्यत्र "ऋत उ"दित्युत्त्वस्येति विवेकः। यद्यपि मध्ये।()पवादन्यायेन दीर्घोत्त्वयोरेव रत्वमपवादः स्यान्न तु "ऋतो ङी"ति गुणस्य, तथापि बाध्यसमान्यचिन्तामाश्रित्य स्वविषये प्राप्तं सर्वमेव हि बाध्यत इति भावः।