तस्य इति वर्तते। छन्दसि विषये तस्य स्थाने तप् तनप् तन थन इत्येते आदेशा भवन्ति। तप् शृणोत ग्रावाणः। शृणुत इति प्राप्ते। सुनोत। सुनुत इति प्राप्ते। तनप् सं वरत्रा दधातन। धत्त इति प्राप्ते। तन जुजुष्टन। जुषत इति प्राप्ते। छान्दसत्वात् श्लुः। थन यदिष्ठन्। यदिच्छत इति प्राप्ते। पित्करनमङित्त्वार्थम्।
"श्रृणोतेः" इति। "श्रुवः शृ च"
३।१।७४ इति श्नुप्रत्ययः, शृभावश्च। पित्त्वे ङित्त्वाभावाद्गुणः। "सुनोत" इति। "स्वदिभ्यः श्नुः"
३।१।७३। "दधातन" इति। दधातेः "श्लौ"
६।१।१० इति द्विर्वचनम्()।
अत्रापि पूर्वलत्? ङित्त्वाभावात्? "श्नाब्यस्तयोरातः"
६।४।११२ इत्याकारलोपो न भवति। "धत्त" इति। "दधस्तथोश्च"
८।२।३८ इत्यभ्यासादकारस्य धकारः।
धातोरकारलोपे कृते "झलां जश्? झशि"
८।४।५२ इति जश्त्वम्()--डकारः, तस्य "खरि च"
८।४।५४ इति चत्र्वम्()--तकारः। "जुजुष्टन" इति।
इषेरिच्छार्थात्? पूर्ववच्छः, "बहुलं छन्दसि"
२।४।७३ इति तस्य लुक्()। "यदिच्छत" इति। "इषुगमियमां छः"
७।३।७७। चकार स्तस्येत्यस्येहानुकर्षणार्थः॥