समासे अनञ्पूर्वे क्त्वा इत्येतस्य क्त्वा इत्ययम् आदेशो भवति, अपिशब्दाल् ल्यबपि भवति छन्दसि विषये। कृष्णं वासो यजमानं परिधापयित्वा। प्रत्यञ्चमर्कं प्रत्यर्पयित्वा। ल्यबपि भवति। उद्धृत्य जुहोति। वा च्छन्दसि इति नोक्त, सर्वोपाधिव्यभिचारार्थम्। तेन असमासे ल्यब् भवति। अर्च्य तान् देवान् गतः। छन्दो ऽधिकारः आज्जसेरसुक्
७।१।५० इति यावत्।
"परिधापयित्वा, प्रत्यर्ययित्वा" इति। दधातेः, अत्र्तेश्च हेतुमण्णिच्(), "अर्त्तिह्यी" (७।३।
३६) इत्यादिना पुक्? "पुगन्तलघूपपधस्य"
७।३।८६ इति गुणः, क्त्वा,
इट्? अयादेशः। "उद्धृत्य" इति।
"ह्मञ्? हरणे" (धा।पा।८९९), "झयो होऽन्यतरस्याम्()"
८।४।६१ इति हकारस्य धकारः।
"वा छन्दसि" इति।
वक्तव्ये "क्त्वापि छन्दसि" इति।
वचनमसमासेऽपि यथा स्यात्()--अच्र्य तान्? देवान्? गत इति॥