युष्मदस्मद्भ्यासुत्तरस्यशसो नकारादेशो भवति। युष्मन् ब्राह्मणान्। अस्मान् ब्राह्मणान्। युष्मन् ब्राह्मणीः। अस्मान् ब्राह्मणीः। युष्मान् कुलानि। अस्मान् कुलानि।
पूर्वेणामादेशे प्राप्ते शसो न विधीयते।
"युष्मान्? ब्राआहृणान्()।
अस्मान्? ब्राआहृणान्()" इति। "आदेः परस्य"
१।१।५३ इत्यकारस्य नकारः, संयोगान्तलोपः, पूरववदात्त्वम्()। ननु चैतदुदाहरणद्वयममादेशे कृत आत्त्वे च "प्रथमयोः पूर्वसवर्णः"
६।१।९८ इति दीर्घत्वे च "तस्माच्छसो नः पुंसि" (६।१।
१०३) इति नत्वेमैव सिध्यति? नैतदस्ति; न ह्रत्र पूर्वसवरणदीर्घत्वं प्राप्नोति, अमिपूर्वत्वेन बाधितत्वात्()॥
अथ शसि विशेषमाह--शसो न। "ङे प्रथमयोः" इत्यतोऽमित्यनुवर्तते। युष्मदस्मद्भ्यामिति च। युष्मदस्मद्भ्यां परस्य शसोऽम् न स्यादिति लभ्यते। तथाच अमभावे "द्वितीयायां चे"त्यात्वे पूर्वसवर्णदीर्घे "तस्माच्छस नः पुंसी"ति नत्वे युष्मानिति यद्यपि पुंसि रूपं सिध्यति तथापि युष्मान् ब्राआहृणैइः पश्य, अस्मान्ब्राआहृणीः पश्य, युष्मान् ब्राआहृणकुलानि पस्य, असमान् ब्राआहृणकुलानि पस्येति स्त्रीनपुंसकयोर्न सिध्येत। अतो नेदं सूत्रं शसोऽम्निषेधपरं, किं तु शसो नकारोऽत्र विदीयते इत्यभिप्रेत्य -- "तर्हि "शसो न" इति प्रथमा कुतो न श्रूयते इत्याशङ्क्यच आह--नेत्यविभक्तिकमिति। लुप्तप्रथमाविभक्तिकमित्यर्थः। ततस्च फलितमाह--युष्मदस्मद्भ्यामित्यादिना। अमोऽपवाद इति। "ङे प्रथमयोः" इति प्राप्ते एव नत्वविधेस्तदपवादता। युष्मद् अस्, अस्मद् अस् इति स्थिते "द्वितीयायां चे"त्यात्वेऽनेन शसो नकारः। स च "अलोऽन्त्यस्ये"ति नान्त्यस्येत्याह--आदेः परस्येति। संयोगान्तस्येति। अकारस्य नकारे कृते सकारस्य लोप इति भावः। यद्यपि शसोऽमि कृतेऽपि अकारस्य नकारे मकारस्य संयोगान्तलोपे युष्मान् अस्मानिति सिध्यति, तथापि "सत्यपि सम्भवे बाधनं भवती"ति न्यायान्नत्वस्य अमपवादत्वमाश्रितम्। किंच अमि कृते "ङे प्रथमयोः" इत्यत्र मकारान्तरप्रश्लेषपक्षे अकारस्य नकारे मकारस्य संयोगान्तलोपो न स्यादित्यलम्। अथ तृतीया। युष्मद् आ अस्मद् आ इति स्थिते-।