छादेरङ्गस्य अद्व्युपसर्गस्य घप्रत्यये परतः उपधायाः ह्रस्वो भवति। उरश्छदः प्रच्छदः। दन्तच्छदः। णिलोपस्य असिद्धत्वं स्थानिवद्भावो वावचनसामर्थ्यादत्र न भवति इति ह्रस्वभाविनी उपधा भवति। अद्व्युपसर्गस्य इति किम्? समुपच्छादः। अद्विप्रभृत्युपसर्गस्य इति वक्तव्यम्। समुपातिच्छादः। उत्तरा हि सङ्ख्या पूर्वसङ्ख्याकृतं व्यपदेशम् निवर्तयति, नहि त्रिपुत्रो द्विपुत्रः इति व्यपदिश्यते।
द्विप्रभृत्युपसर्गहीनस्य छादेर्ह्रस्वो घे परे। दन्ताश्छाद्यन्तेऽनेनेति दन्तच्छदः। आकुर्वन्त्यस्मिन्नित्याकरः॥
"उरश्छदः" इति। "छद अपवारणे" (धा।पा।१९३५), चुरादिणिच्(), "पुंसि संज्ञायां घः प्रायेण"
३।३।११८ इति घः। "उरसश्छदः" इति विगृह्र "कृद्योगा च षष्ठी समस्यते" (वा।८६) इति समासः।
ननु च णिलोपस्य "असिद्धवदत्रा भात्()" (६।४।
२२) इत्यसिद्धत्वात्? "अचः परस्मिन्पूर्वविधौ"
१।२।५७ इति स्थानिवद्भावाद्वा ह्यस्वभाविन्यज्लक्षणोपधा न सम्भवति,
तत्? कथं ह्यस्वत्त्वं प्रवत्र्तते? इत्याह--"णिलोपस्य" इत्यादि। यद्यत्र णिलोपस्यासिद्धत्वं स्थानिवद्भावो वा स्यात्(), तदा वचनमनर्थकं स्यात्()। तस्माद्वचनसमथ्र्यादुभयमपि न भवति, तेन ह्यस्वभाविन्युपधा भवति।
"अद्विप्रभृत्युपसर्गस्येति वक्तव्यम्()" इति। ननु च त्रिप्रभृतयो यत्र सन्ति तत्र द्वावपि स्तः,
ततश्चाद्व्युपसर्गस्येत्येवं सिद्धम्()? इत्यत आह--"उत्तरा हि" इत्यादि। यद्यपि त्रिप्रभृतिषु द्वावपि स्तः, तथापि न ताविह द्विशब्देनोपात्तौ; यत उत्तरा हि संख्या पूर्वसंख्याया यः कृतो व्यपदेशस्तदभिधानं निवत्र्तयति।
कथं ज्ञायते? इत्याह--"न हि" इत्यादि। यद्युत्तरा संख्या पूर्वसंख्याकृतव्यपदेशं न निवत्र्तयेत्(), तदा त्रिपुत्रोऽपि लोके द्विपुत्र इत्यभिधीयेत, न चाभिधीयते। तथा हि "द्विपुत्रः आनीयताम्()" इत्युक्ते नैव त्रिपुत्र आनीयते, अपि तु यस्यं द्वादेव पुत्रौ स एव। अद्विप्रभृतीत्यादेश्च वाक्यस्यायमर्थः--अद्धिप्रभृत्युपसर्गस्य छादेह्र्यस्वत्वं भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्()--द्विशब्दोऽत्रानेकोपलक्षणार्थम्(), द्व्युपसर्गस्यानेकोपसर्गस्येति यावत्()। अद्व्युपसर्गस्येते च प्रसज्यप्रतिषेधोऽयम्()। तेनायमर्यो भवति--छादेरङ्गस्यानेकोपसर्गस्य घप्रत्यये परत उपधाह्यस्वो न भवतीति।
केन पुनः प्राप्तस्य ह्यस्वस्यानेन प्रतिषेधः क्रियते? एतस्मादेव प्रतिषेधाद्विधायकं वाक्यमनुमीयते। योगविभागाद्व#आ--"छादेर्घे" इति। यदि च द्विशब्दोऽत्रानेकोपलक्षणार्थः, योगविभागश्चाभ्युपेयेतैवं तदा पर्युदासेऽप्यदोषः।
कथम्()? द्व्युपसर्गादनेकोपसर्गादन्योऽद्व्युपसर्गः=एकोपसर्गः, तस्य ह्यस्वत्त्वं भवति। किमर्थमिदम्(),
न "छादेर्घे" इत्यनेनैव सिद्धम्()? सिद्धे सत्यारम्भो नियमार्थः--एकोपसर्गस्यैव भवति, नान्यस्येति।
यद्येदम्? "उरश्छदः" इत्यत्र न प्राप्नोति? नैष दोषः, एवं हि योगविभागोऽनर्थकः स्यात्()। तुल्यजातीयापेक्षत्वान्नियमस्य, सोपसर्गस्य नियमः क्रियमामः सोपसर्गस्येव ह्यस्वत्वं निवत्र्तयति, नानुपसर्गस्य। तेन "उत्तरश्छदः" इत्यत्र प्रवर्तत एव॥