स्त्री इत्येतस्य अजादौ प्रत्यये परतः इयङादेशो भवति। स्त्री, स्त्रियौ, स्त्रियः। स्त्रीणाम् इत्यत्र परत्वानुडागमः। पृथग्योगकरणम् उत्तरार्थम्।
"स्त्रियाः" इति। "आण्नद्याः"
७।३।११२, "जातेरस्त्रीविषयादयोपधात्()"
४।१।६३ इति निर्देशान्नेदं स्त्रीप्रत्ययानां ग्रहणम्(), नापि स्त्र्यर्थवृत्तेः शब्दस्येति निश्चित्य स्त्रीशब्दस्यैव स्वरूपेण ग्रहणमिति दर्शयितुमाह--"स्त्री इत्येतस्य" इत्यादि। इतिकरणः स्त्रीशब्दस्य स्वरूपपदार्थता दर्शयति। अथ षष्ठीबहुवचने कस्मान्न भवतीत्याह--"स्त्रीणाम्()" इत्यादि।
परत्वात्? षष्ठीबहुवचने नुटा भवितव्यम्(), त()स्मश्च सत्यजादिः परः प्रत्ययो न भवतीतीयङ न प्रवर्तते।
अथ किमर्थं पृथग्योगः क्रियते? न,
"अचि श्नुधातुस्त्रीभ्रुवाम्()" इत्येक एव योगः क्रियेतेति? अत आह--"प्रथग्योगकरणम्()" इत्यादि। "वाऽम्शसोः"
६।४।८० इत्यत्र स्त्रीशब्दस्यैव विकल्पो यथा स्यात्(), धातुभ्रुवोर्माभूदित्येवमर्थं पृथग्योगकरणम्()॥