स्व सिच् सीयुट् तासि इत्येतेषु भावकर्मविषयेषु परत उपदेशे अजन्तानाम् अङ्गानां हन् ग्रः दृशित्येतेषां च चिण्वत् कार्यं भवति वा। यदा चिण्वत् तदा इडागमो भवति।
कस्य? स्यसिच्सीयुट्तासीनाम् एव इति वेदितव्यम्। ते हि प्रकृताः। अङ्गस्य तु लक्ष्यविरोधात् न क्रियते।
कानि पुनरस्य योगस्य प्रयोजनानि? चिण्वद्वृद्धिर् युक् च हन्तेश्च घत्वं दीर्घश्च उक्तो यो मितां वा चिणीति। इट् च असिद्धस् तेन मे लुप्यते णिर्नित्यश्च अयं वल्निमित्तो विघाती। अजन्तानां तावत् चायिष्यते, चेष्यते। अचायिष्यत, अचेष्यत। दायिष्यते, दास्यते। अदायिष्यत, अदास्यत। शामिष्यते, शमिश्यते, शमयिस्यते। अशामिष्यत, अशमिष्यत अशमयिष्यत। हन् घानिष्यते, हनिष्यते। अघानिष्यत, अहनिष्यत। ग्रः ग्राहिष्यते, ग्रहीष्यते। अग्राहिष्यत, अग्रहीष्यत। ग्रहो ऽलिटि दीर्घः
७।२।३७ इति प्रकृतस्य इटो दीर्घत्वम्। दृश् दर्शिष्यते, द्रक्ष्यते। अदर्शिष्यत, अद्रक्ष्यत। सिचि अजन्तानाम् अचायिषाताम्, अचेषाताम्। अदायिषाताम्, अदिषाताम्। अशामिषातम्, अशमिषातम्, अशमयिषाताम्। हन् अघानिषाताम्, अवधिषाताम्, अहसाताम्। ग्रः अग्राहिषाताम्, अग्रहीषाताम्। दृश् अदर्शिषाताम्, अदृक्षाताम्। सीयुटि अजन्तानाम् चायिषीष्त, चेषीष्ट। दायिषीष्ट, दासीष्ट। शामिषीष्ट, शमिषीष्ट, शमयिषीष्ट। हन् घानिषीष्ट, वधिषीष्ट। ग्रः ग्राहिषीष्ट, ग्रहीषीष्ट। दृश् दर्शिषीष्ट, दृक्षीष्ट। तासावजन्तानाम् चायिता, चेता। दायिता, दाता। शामिता, शमिता, शमयित। हन् घानिता, हन्ता। ग्रः ग्राहिता, ग्रहीता। दृश् दर्शिता, द्रष्टा।
स्यसिच्सीयुट्तासिषु इति किम्? चेतव्यम्। दातव्यम्।
भावकर्मणोः इति किम्? चेष्यति। दास्यति।
उपदेशे इति किम्? कारिष्यते इति गुणे कृते रपरत्वे च न प्राप्नोति, उपदेशग्रहणाद् भवति।
अज्झनग्रहदृशाम् इति किम्? पठिष्यते। अङ्गाधिकारविहितं कार्यम् इह अतिदिश्यते, तेन हनिणिङामादेशा न भवन्ति। हनिष्यते, घानिष्यते। एष्यते, आयिष्यते। अध्येष्यते, अध्यायिष्यते। हनो वध लिङि
२।४।४२, लुङि च
२।४।४३, इणो गा लुङि
२।४।४५, विभाषा लुङ्लृङोः
२।४।५० इत्येते विधयो न भवन्ति।
उपदेशे योऽच् तदन्तानां हनादीनां च चिणीवाङ्गकार्यं वा स्यात्स्यादिषु भावकर्मणोर्गम्यमानयोः स्यादीनामिडागमश्च। चिण्वद्भावपक्षेऽयमिट्। चिण्वद्भावाद् वृद्धिः। भाविता, भविता। भाविष्यते, भविष्यते। भूयताम्। अभूयत। भाविषीष्ट, भविषीष्ट॥
"स्यसिच्सीयुट्तासिषु" इति सप्तम्या प्रतियोगिनो निर्देशाच्चिणीव चिण्वदिति सप्तमीसमर्थाद्वतिर्विज्ञायते,
यथा--मथुरावत्? पाटलिपुत्रे प्रकार इति। "भावकर्मविषयेषु" इति। अनेन "भावकर्मणोः इत्यस्य विषयसप्तमीत्वं दर्शयति।
भावकर्मणी विषयौ येषान्ते तथोक्ताः के पुनः स्यादयो भावकर्मविषयाः? ये स्यादयो लादेशेन भावकर्मणोर्विवक्षितयोर्भवतन्ति। चकारोऽत्र सन्नियोगार्थः क्रियते। तेन यदा चिण्वद्भावो इत्यादि। "कस्य" इति। षष्ठीनिर्दिष्टस्य ह्रागमा भवन्ति, स्यादयश्चेह सप्तम्या निर्दिष्टाः; न चान्य आगमीश्रूयत इति प्रश्नः। यद्यपि ते सप्तम्या निर्दिष्टाः, न चान्य आगमी श्रूयत इति प्रश्नः। यद्यपि ते सप्तम्या निर्दिष्टाः, तथापि यथा "हनश्च वधः" (३।३।
७६) इति पञ्चमी निर्दिष्टोऽपि हन्तिः प्रत्ययमुत्पाद्यदेशेन सम्बन्धमनुभवन्? षष्ठ()न्ततां प्रतिपद्यते तथा स्यादयोऽपि यदागमेन सम्बन्धमनुभवन्ति तदा षष्ठ()न्ततां प्रतिपद्यन्त इत्यभिप्रायेणाह--"स्यसिच्()" इत्यादि। अत्रैव हेतमाह--"ते हि प्रकृताः" इत्यादि। इडयमागमलिङ्गः, तस्यावश्यमागमिना भवितव्यम्(),
तत्? किमश्रुतानामागमित्वं परिकल्प्य,
तस्यैव विधीयतामुत प्रकृतानामेव स्यादीनाम#इति? युक्तं यत्? प्रकृतानामेव विधीयते; अश्रुतप्रकल्पनाया गरीयस्त्वात्()। ननु चाङ्गमपि प्रकृतम्(),
तस्य कस्मान्न क्रियते? इत्यत आह--"अङ्गस्य" इत्यादि। अङ्गस्य न क्रियते, लक्ष्यविरोधात्()। यद्यङ्गस्य स्यात्(), तदेटि कृते लक्ष्यावरधादनिष्टं स्यात्()। न ह्रनण्टार्था शास्त्रे प्रक्लृप्तिरयुक्ता। तस्मान्मा भूल्लक्ष्यविरोध इति यद्यप्यङ्गमपि प्रकृतम्(), तथापि स्यादीनामेव क्रियते, नाङ्गस्य।
इह द्वौ पक्षौ सम्भवतः--चिण्निमित्तं यत्कार्यं, यदाहत्य चिणि विधीयते तद्वातिदिश्यते।
यद्वा चिणियद्दृष्टं चिण्णिमत्तमचिण्णिमित्त्ञ्च तत्? सामान्येन। तत्र यदि पर्वकः पक्ष आश्रीयेत,
तदा "आतो युक्? चिण्कृतोः"
७।३।३३ इति युगागमः। "विण्णमुलोर्दोर्घोऽन्यतरस्याम्()"
६।४।९३ इति दीर्घत्वञ्च--एते द्वे एवाङ्गकार्येऽतिविश्ये स्याताम्()।
नान्यात्? वृद्ध्यादिकम्(), न हि तदाहत्य चिणि विधीयते। आहत्य=उच्चार्येत्यर्थः। यद्धि साक्षाच्चिणं निमित्तमुपादाय विधीयते तच्चिण्याहत्य विधीयते, न चैवं वृद्ध्यादिकं विधीयते। अथ द्वितीयस्ततो न भवत्येष दोषप्रसङ्गः; वृद्ध्यादीनामपि चिणि दृष्टत्वात्()।
यदि चिणि यद्दृष्टं तदतिदिश्यते, तर्हि हनिणिङामादेशा अपि प्राप्नुवन्ति,
तेषामपि तत्र दृष्टत्वादिति? अनेनाभिप्रायेणाह--"कानि पुनः" इत्यादि।
द्वितीये पक्षे यो दोषस्तमुत्तरत्र परिहरिष्यामीति चेतसि कृत्वा चिणि यद्दृष्टं कार्यं तन्निमित्तमितरद्वा तदिह सामान्येन निर्दिश्यत इति दर्शयन्नस्य योगस्य यानि प्रयोजनानि तेषां संग्रहश्लोकसमाह--"वृद्धिश्चिण्वत्()" इत्यादि।
"चायिष्यते" इत्यत्र वृद्धिः प्रयोजनम्()। चिनोतेर्लुट्(), स्यप्रगतययः। "भावकर्मणोः"
१।३।१३ इत्यात्मनेपदम्(),
अत्रेदानीं चिण्वद्भावाद्? वृद्धिर्भवति यथा--चिणि "अचो ञ्णिति"
७।२।११५ इति वृद्धिर्भवत्य चायीति, एवमुत्तरत्रापि चिण्वदित्येतस्य प्रत्येकमभिसम्बन्धं कृत्वा यथायोगमतिदेशो योजनीयः। "अचायिष्यते" इति। लुङः, शेषं पूर्ववत्()।
युक्? च प्रयोजनम्()--"दायिष्यते" इत्यत्र। दीर्घश्चोक्तो यो मितां वा चिणोति स च। प्रयोजनं शमिष्यते, शामिष्यत इत्यत्र। शमेः "जनिजृष्क्नसुरञ्जोऽमन्ताश्च" (धा।पा।८१७) इति मित्संज्ञा, स च ण्यन्तः "सनाद्यन्ता धातवः"
३।१।३२ इत्यत्रोपदिष्ट इत्युपदेशेऽजन्तो भवति। यत्तु हन्तेः "हो हन्तेञ्चिन्नेषु"
७।३।५४ इति कुत्वं विधास्यते, तच्च प्रयोजनं "घानिष्यते" इत्यत्र। हनिष्यत इत्यत्र तु "ऋद्धनोः स्ये"
७।१।७० इतीट्()।
सन्त्येतानि प्रयोजनानि, किन्त्वनेनेटि कृते शमिष्यते, शमिष्यत इत्यत्र "णेरनिटि"
६।४।५१ इति णिलोपो न सिद्ध्यतिः सेट्त्वात्()।
अत आह--"इट्? चासिद्धः" इत्यादि। "असिद्धवदत्रा भात्()"
६।४।२२ इत्यसिद्धेऽयं चिण्वदिट्(), तेन णिलोपो भविष्यति। स्यादेतत्()--येऽनुदात्तोपदेशाश्चिनोत्यादयस्तेभ्यः परेषां स्यादीनामनेनेङ्विधीयत इति युक्तमसिद्धत्वम्(),
ये तूदात्तोपदेशाः शमिप्रभृतयस्तेम्यः परत्वात्? "आर्धधातुकस्येङ्वलादेः"
७।२।३५ इति वल्निमित्तेनेटा भवितव्यम्(), स च सिद्ध एव;
त()स्मस्तु तदवस्थ एव दोषः? इत्यत आह--"नित्यश्चायम्()" इत्यादि। कृताकृतप्रसङ्गी यो विधिः स नित्यः--इत्येतदाश्रित्यायं चिण्वदिण्नित्यः। कृतेऽपि हि वलादित्वस्य विहितत्वात्()। "वल्निमित्तो विधाती" इति।
वल्? निमित्तं कारणं यस्य स तथोक्तः। विघातोऽस्यास्तीति विघाती। विघातः=निमित्ताभावादप्रवृत्तिः। तदेवं नित्यत्वादुदात्तेभ्योऽप्यनेनैव चिण्वदिटा भवितव्यम्(), अयञ्चासिद्ध इति न भवति णिलोपाभावप्रसङ्गः।
"ग्राहिष्यते" इति। "अत उपधायाः"
७।२।११६ इति वृद्धिः प्रयोजनम्()। अथेह "ग्रहोऽलिटि दीर्घः" (७।२।
३७) इति दीर्घः कस्मान्न भवति? इत्याह--"ग्रहोऽलिटि" इत्यादि।
वलादिलक्षणस्तत्रेट्? प्रकृत इति तस्यैव दीर्घो विज्ञायते, नान्यस्य। "द्रक्ष्यते" इति। "सृजिदृशोर्झल्यमकिति
६।१।५७ इत्यमागमः, व्रश्चादिना (८।२।
३६) षत्वम्? "षङोः कः सि" (८।२।
४१) इति कत्वम्? "इण्कोः
८।३।५७ इति षत्वम्()। "दर्शिष्यते" इति। "पुगन्तलघूपधस्य"
७।३।८६ इत्यनेनात्र गुणः सिद्ध्यत्येव। इडर्थस्तु चिण्वद्भावो विधीयते।
"अचेषाताम्()" इति। आताम्(), सिचि रूपम्()। "अदिषाताम्()" इति। "स्थाध्वोरिच्च"
१।२।१७ इतीत्त्वम्(), सिचश्च कित्वम्()। "अवधिषाताम्()" इति। "आत्मनेपदेष्वन्यतरस्याम्()"
२।४।४४ इति वधादेशः। "अदृक्षाताम्()" इति। "लिङसिचावात्मनेपदेषु"
१।२।११ इति कित्त्वम्()। तेनामागमगुणौ न भवतः, षत्वादि पूर्ववत्()।
"चेता" इति। लुट्(), तासिः, "लुटः प्रथमस्य डारौरसः"
२।४।८५ इति डादेशः, टिलोपः। "द्रष्टा" इति। पूर्ववदमादिः। "चेतव्यम्()" इति। कर्मणि तव्यः। "चेष्यति" इति।
अत्र कर्तुर्लादेशेन विवक्षित्वात्? कर्तृविषयः स्यप्रत्ययः।
"गुणे कृते रपरत्वे च न प्राप्नोति" इति। कृ ष्यत इति स्थिते गुणः प्राप्नोति, चिण्वद्भावश्च; तत्र परत्वाद्गुणः, तत्र कृते रपरत्वम्()। यद्युपदेशग्रहणं न क्रियेत ततोऽनजन्तत्वादिह न स्यात्()। उपदेशग्रहणाद्भवति। यद्यपि करोतिरुत्तरकालमनजन्तः, उपदेशे त्वजन्त एव।
यदि चिणि यद्दृष्टं कार्यं तदतिदिष्टं हनिणिङादेशा अपि प्राप्नुवन्ति।
तेषामपि तन्न दृष्टत्वात्()? इत्यत आह--"अङ्गाधिकारविहितम्()" इत्यादि। "अङ्गस्य" इत्यधिकारे सति प्रत्यसत्तेरङ्गाधिकारे विहितं कार्यं यच्चिणि दृश्यते सामान्येन तदतिदिश्यते, न तु यद्विप्रकृष्टं प्रकरणान्तरविहितम्()। न च हनिणिङामादेशा अङ्गाधिकारे विहिताः, अपि तु प्रकरणान्तरे। तस्मान् तेऽतिदिश्यन्त इति न भवन्ति तत्र। "धानिष्यते" इत्यत्र "लुङि च"
२।४।४३ इत्यनेन विहितो वधादेशो न भवति। "आयिष्यते" इति। "इणो गा लुङि"
२।४।४५ इत्यनेन विहितो गादेशः। "अध्यायिष्यते" इति। अत्र "विभाषा लुङ्लृङोः"
२।४।५० इत्यनेन विहितौ गाङादेशः।
एवमपि स्यादिभ्यः परस्य प्रत्ययसय लुक्? प्राप्नोति; अङ्गाधिकारे चिण उत्तरसय प्रत्ययस्य "चिणोलुक्()" (६।४।
१०४) इति लुग्विधानात्()? नैष दोषः; इह हि सप्तमीसमर्थाद्विहितस्य वतेराश्रयणम्()। तेन चिणि यद्दृष्टं कार्यं पूर्वस्य सम्भवति तदतिदिश्यते,
न तूत्तरस्य यत्? कार्यं तदपि॥