सूत्रम्
ये विभाषा॥ ६।४।४३
काशिका-वृत्तिः
ये विभाषा ६।४।४३
यकारादौ क्ङिति प्रत्यये परतो जनसनखनाम् आकार आदेशो भवति विभाषा। जायते, जन्यते। जाजायते, जञ्जन्यते। सायते, सन्यते। सासायते, संसन्यते। खायते, खन्यते। चाखायते, चङ्खन्यते। जनेः श्यनि ज्ञाजनोर् जा
७।३।७९ इति नित्यं जादेशो भवति।
लघु-सिद्धान्त-कौमुदी
ये विभाषा ६७८, ६।४।४३
जनसनखनामात्वं वा यादौ क्ङिति। सायात्, सन्यात्॥
न्यासः
ये विभाषा। , ६।४।४३
असज्झलाद्यर्थ आरम्भः। "जायते, जन्यते" इति। भावे लकारः। "जाजायते" इति। यङ्(), "दीर्घोऽकितः"
७।४।८३ इत्यभ्यासस्य दीर्घत्वम्()। "जञ्जन्यते" इति। "नुगतोऽनुनासिकान्तस्य"
७।४।८५ नुगागमः "सायते, सन्यते" इति। भावे कर्मणि वा लकारः।
जनेः श्यन्यपि विभाषाऽऽत्त्वेन भवितव्यमिति कस्यचिद्? भ्रान्ति स्यात्(), अतस्तां निराकर्तुमाह--"जनेः श्यनि" इत्यादि।
जनेर्दिवादित्वात्? श्यनि विहिते सत्युमयं प्राप्नोति, अनेन विभाषाऽऽत्त्वम्(), "ज्ञाजनोर्जा"
७।३।७९ इति जाभावश्च,
तत्र जादेशस्यानवकाशत्वात्? स एव नित्यं भवति। तेन श्यनि "जायते" इत्येवं नित्यं भवति,
न तु कदाचित्? "जन्यते" इति॥
बाल-मनोरमा
ये विभाषा १५९, ६।४।४३
आशीर्लिङि विशेषमाह-- ये विभाषा। "जनसनखनां सञ्झलो"रित्यतो जनसनखनाभित्यनुवर्तते। अनुदात्तोपदेशेत्यतः क्ङितीति। "ये" इति तद्विशेषणम्। अकार उच्चारणार्थः। तदादिविदिः। "विड्वनोरनुनासिकस्या"दित्यत आदित्यनुवर्तते। तदाह--जनसनखनामित्यादिना। सायादिति। नकारस्य आत्वे सवर्णदीर्घः। द्रम हम्म। आद्योऽदुपधः। न वृद्धिरिति। "अद्रमी"दित्यत्र हलन्तलक्षणायां वृद्धौ "नेटी"ति निषिद्धायां , "ह्म्यन्ते"त्यतोऽतो हलादेरिति वृद्धिर्नेत्यर्थः। जहम्मेति। अभ्यासचुत्वेन हस्य झः। तस्य "अभ्यासे चर्चे"त्यनेन जः। मिमीमेति। मीमृधातोर्णलि द्वित्वे अभ्यासह्यस्वः। अयं शब्दे चेति। मीमृधातुरित्यर्थः।
तत्त्व-बोधिनी
टेः २७६, ६।४।४३
टेः। "ति विशते"रित्यतो--"ङिती"त्यनुवर्कतते, "भस्ये"ति चाधिकृतं। तदाह---डिति परे भस्येति। भस्य किम्(), पञ्चमः। अत्र डटो मडागमे भत्वाऽभावाट्टिलोपो न भवति। किंतु पदत्वान्नलोप एव। अद्डो डित्करणस्य प्रयोजनमाह---टेर्लुप्तत्वादित्यादि। ननु पूर्वसवर्णदीर्घाऽभावाय दादेश एव क्रियतां किमद्जादेसेनेत्याशङ्क्याह----एङ्ह्यस्वादित्यादि। दादेशे तु "हे कतरे"ति स्यादिति भावः। अन्यतमशब्दस्य त्विति। एवञ्च "सामान्यादिष्वन्यतमत्तमः"इत्यादिप्रयोगाः प्रामादिका एवेति भावः।
एकतरात्प्रतिषेधो वक्तव्यः
। अजरमिति। अविद्यमाना जरा यस्य तत्। "गोस्त्रियो"रित्युपसर्जनह्यस्वे "अतोऽम्"। परत्वादिति। "अजर शि"इति स्थिते यद्यपि जरसादेशात्प्रागेव "नपुंसकस्य झलचः"इत्यजन्तलक्षणो नुमागमः स्यात्स चाङ्गभक्तोऽङ्गमेव न व्यवदध्यात्, अवयवस्य तु जराशब्दस्य व्यवधायक एवेति निर्दिश्यमानस्यादेशो विधीयमानो न प्राप्नोति, तथापि "यस्मादन्त्यादचः परस्तस्यैवान्तावयवोमित्स्या"दिति स्वमते त्ववयवावयवः समुदायस्याप्यवयव इत्यभ्युपगमेन कथञ्चिज्जरसादेशे जातेऽपि सान्तत्वाऽभावात् "सान्तमहतः"इति दीर्घो न स्यादिति भावः।
तत्त्व-बोधिनी
ये विभाषा १३३, ६।४।४३
गत्यादिष्विति। गतिशब्दसंभवक्तिष्वित्यर्थः। मीमृ। ऋदित्फलं तु "नाग्लोपी"ति निषेधः। अमिमीमत्।