हन्तेर्जः। "शा हौ इत्यतो हौ इत्यनुवृत्तिमभिप्रेत्य शेषपूरणेन सूत्रं व्याचष्टे-- हौ परे इति। कृते जादेशे "अतो हे"रिति हेर्लुकमाशङ्क्य आह--आभीयतयेति। जहीति। हतात् हतम्। हत। हनानीति। आटः पित्त्वेन हित्त्वाऽभावान्नोपधालोप इति भावः। अहन्निति। लङस्तिपि "इतश्चे"ति इकारलोपे "संयोगान्तस्ये"ति तकारलोपः। न्याय्यत्वाद्धल्ङ्यादिलोपो वा। अहनमिति। अहन्व। अहन्म। झलादिपरकत्वाऽभावान्नोपधादीर्घः। विधिलिङि हन्यात् हन्यताम् इत्यादि। आशीर्लिङि वधादेशं वक्ष्यन्नाह-