"आङ" इति तृतीयैकवचनस्यैषा संज्ञा पूर्वाचार्यैर्विहिता। "आङोऽन्यत्रापि दृश्यते" इति। "मन्त्रेषु" इति बहुवचननिर्देशादेतल्लभ्यते। बहुवचननिर्देशेन ह्रयमर्थः सूचितः--बहुविषयोऽयं निर्देश इति। एवञ्च बहुविषयो भवति यद्याङोऽन्यत्रापि क्वचिद्भवति, नान्यथा। "त्मान्यासमञ्जत" इति। सप्तम्येकवचने। अत्रादिलोपः।
आदिग्रहणमुत्तरार्थम्()।
इह तु पूर्वसूत्रात्? "आतः"
६।४।१४० इत्यनुवृत्तेरन्तरेणाप्यादिग्रहणमादेरेवलोपो भवतीति शक्यते विज्ञातुम्()॥