श्रु शृणु पृ̄ कृ वृ इत्येतेभ्य उत्तरस्य हेः धिरादेशो हवति छन्दसि विषये। श्रुधी हवमिन्द्र। शृणुधी गिरः। पूर्धि। उरु णस्कृधि। अपा वृधि। शृणुधि इत्यत्र धिभावविधानसामार्थ्यादुतश्च प्रत्ययातिति हेर्लुक् न भवति। अन्येषाम् अपि दृश्यते इति दीर्घत्वम्। अतो ऽन्यत्र व्यत्ययो बहुलम् इति शप्, तस्य बहुलं छन्दसि इति लुक्।
"श्रुणुधी" इति। "श्रुवः शृ च"
३।१।७४ इति श्नुप्रत्ययः, श्रृभावश्च। "पूर्द्धि" इति।
"पृ? पालनपूरणयोः" (धा।पा।१०८६), "उदोष्ठ()पूर्वस्य"
७।१।१०२ इत्युत्त्वम्(), "हलि च"
८।२।७७ इति दीर्घः। "उपरुणस्कृधि" इति। उरु अस्माकं कृधीति स्थिते "बहुवचनस्य वस्नसौ"
८।१।२१ इत्यस्मदो नसादेशः, "नश्च धातुस्थोरुषुभ्यः"
८।४।२६ इति णत्वम्(), सकारस्य रुत्वम्(), विसर्जनीयः। तस्य "अतः कृकमि"
८।३।४६ इत्यादिना सत्वम्()। "अपावृधि" इति। वृङो वृञो वा रूपम्()। वृङोऽपि हि "व्यत्ययो बहुलम्()"
३।१।८५ इति च्छन्दसि परस्मैपदं भवत्येव।
अथ श्रृणुधीत्यत्र "उतश्च प्रत्ययादसंयोगपूर्वात्()" (६।४।
१०६) इत्यनेन लुक्? कस्मान्न भवति? इत्याह--"श्रृणुधीत्यत्र" इत्यादि।
यद्यत्र लुक्? स्यात्? धिमावस्यानर्थस्यं स्यादिति भावः। "अन्येषामपि दृश्यते"
६।३।१३६ इति दीर्घत्वमपावृधीत्यत्र। ननु च श्रुधत्यत्र "श्रुवः श्रृ च"
३।१।७४ इति शृभावेन इनुप्रत्ययेन च भवितव्यम्(),
पूर्धीत्यत्र क्र्यादित्वात्? श्नाप्रत्ययेन, उरुणस्कृधीत्यत्र "तनादिकृञ्भ्यः उः"
३।१।७९ इत्युप्रत्ययेन;
अपावृधीत्यतत्र यदि वृङ तदा क्र्यादित्वात्? श्नाप्रत्ययेन,
अथ वृञ्? तदा स्वादित्वात्? श्नुप्रत्ययेन;
एवञ्चैतानि रूपाणि न सिध्यन्ति? इत्यत आह--"अतोऽन्यतर" इत्यादि। श्रृणुधीत्येतस्मादुदाहरणादन्येषूदाहरणेषु "व्यत्ययो बहुलम्()"
३।१।८५ इति शप्(), तस्यापि "बहुलं छन्दसि"
२।४।७३ इति लुक्()॥