"सा()आत्थम्()" इति। सहा()आत्थेनेति "तेन सहेति तुल्ययोगे"
२।२।२८ इति बहुव्रीहिः। "सहयुध्वा, सहकृत्वा" इति। "दृशेः क्वनिप्()"
३।२।९४ इत्यनुवत्र्तमाने "राजनि युधि कृञः"
३।२।९५, "सहे च"
३।२।९६ इति क्वनिप्(), उपपदसमासः, "सर्वनामस्थाने;
६।४।८ इति दीर्घः।
किं पुनः कारणं सादेश उदात्तो निपात्यते? इत्यत आह--"उदात्तानुदात्तवतो हि" इत्यादि। निपाता आद्युदाता भवन्ति" (फि।सू।४।८०) इति सहशब्द आद्युदात्त एव, शेषमनुदात्तम्()। तेनासावुदात्तानुदात्तवान्(), ततश्चान्तर्यतस्तस्य स्थाने सशब्दः स्वरितः। तस्मान्मा भूदेष दोष इत्युदात्तो निपात्यते। यद्येवम्(),
अव्ययीभावेऽपि उदात्त एव स्वरः प्राप्नोति? इत्यत आह--"स च निपातस्वरः" इत्यादि। "यत्र" इत्यादि। बहुव्रीहौ तत्पुरुषे वा। "बहुव्रीहौ प्रकृत्या पूर्वपदम्()"
६।२।१ इति सहेत्येतस्य समासान्तोदात्तत्वापवादः प्रकृतिस्वरत्वं भवति। तत्पुरुषेऽपि "तत्पुरुषे तुल्यार्थ"
६।२।२ इत्यादिना।
तस्मात्? तत्रैव स निपातस्वरः प्रसज्यते। अव्ययीभावे तु समासान्तोदात्तत्वापवादः प्रकृतिस्वरो न केनचिद्विहित इति ततर समासान्तोदात्तत्वेनैव भवितव्यम्()। अतस्तेन बाध्यत एव। "सेष्टि, सपशृबन्धम्()" इति। इष्टिरन्तो यस्य पशुबन्धोऽन्तो यस्येति, "अव्ययं विभक्ति"
२।१।६ इत्यादिना समासः, अन्तवचने।
अत्र परत्वात्? प्रथमसतावन्नपतस्वरः, ततः समासान्तोदात्तत्वम्()। तच्च सति निपातस्वरे शिष्यत इति सतिशिष्टम्(), अतस्तेन निपातस्वरो बाध्यते; सतिशिष्टस्वरस्य वलयस्त्वात्()॥