स्वसृ पति इत्येतयोः उत्तरपदयोः ऋकारान्तेभ्यः विद्यायोनिसम्बन्धवाचिभ्यः विभाषा ऽलुग् भवति। मातुःष्वसा, मातुःस्वसा, मातृष्वसा। पितुःष्वसा, पितुःस्वसा, पितृष्वसा। यदा लुक् तदा मातृपितृभ्यां स्वसा
८।३।८४ इति नित्यं षत्वम्। यदा तु अलुक् तदा मातुः पितुर्भ्यम् अन्यतरस्याम्
८।३।८५ इति विकल्पेन षत्वम्। दुहितुःपतिः, दुहितृपतिः। ननान्दुःपितिः, ननान्दृपतिः।