सूत्रम्
प्रावृट्शरत्कालदिवां जे॥ ६।३।१४
काशिका-वृत्तिः
प्रावृट्शरत्कालदिवां जे ६।३।१५
प्रावृट् शरत् काल दिवित्येतेषां जे उत्तरपदे सप्तम्याः अलुक् भवति। प्रावृषिजः। शरदिजः। शरदिजः। कालेजः। दिविजः। पूर्वस्य एव अयं प्रपञ्चः।
न्यासः
प्रवृट्शरत्कालदिवां जे। , ६।३।१४
"प्रावृषिजः" इति। "सप्तम्यां जनेर्डः"
३।२।९७, "टेः"
६।४।१४३ इति टिलोपः, "अपपदमतिङ"
२।२।१९ इति समासः॥
बाल-मनोरमा
प्रावृट्?शरत्कालदिवां जे ९५८, ६।३।१४
प्रावृट्शरत्। प्रावृट्, शरत्, काल, दिव्-एषां सम्या अलुक् स्याज्ज शब्दे परे संज्ञायामित्यर्थः। ननु "हलदन्ता"दित्येव सिद्धे किमर्थमिदमित्यत आह--पूर्वस्यैवायं प्रपञ्च इति। विस्तर इत्यर्थः।