पूर्वम्: ६।२।७८
अनन्तरम्: ६।२।८०
सूत्रम्
णिनि॥
६।२।७९
काशिका-वृत्तिः
णिनि
६।२।७९
णिनन्ते उत्तरपदे पूर्वपदम् आद्युदात्तं भवति। पुष्पहारी। फलहारी। पर्णहारी।
न्यासः
णिनिः।
, ६।२।७९
"पूष्पहारी" इति हरतेः "व्रते"
३।२।८०
"बहुलमाभीक्ष्ण्ये"
३।२।८१
इति वा णिनिः॥