अणन्ते उत्तरपदे नियुक्तवाचिनि समासे पूर्वपदम् आद्युदात्तं भवति। छत्रधारः। तूणीरघारः। कमण्डलुग्राहः। भृङ्गारधारः। नियुक्तो ऽधिकृतः, स च कस्मिंश्चित् कर्तव्ये तत्परो न भवति इति नियुक्तः इत्यनेन सिध्यति। नियुक्तः इति किम्? काण्डलावः। शरलावः।
"छत्त्रधारः" इति। "कर्मण्यण्()"
३।२।१।॥
किमर्थं पुनरिदम्(), यावता युक्तोऽभिमतः,
तद्वाची न भवति? "नियुक्तोऽधिकृतः" इत्यादि। "युक्ते च"
६।२।६६ इत्यनेन हि यः कर्तव्ये युक्तः समाहितः तस्य पूर्वपदस्याद्युदात्तत्वम्(), तेनाधिकृतवाचिनि न सिध्यति। तस्मादधिकृतच्छत्त्रादिषु यः सहिनियुक्तोऽभिप्रेतः, स च क()स्मश्चिच्छत्त्रधारणे तत्परो न भवति तेन च्छत्रधार इत्यादिसमासो यादृशः "युक्ते च"
६।२।६६ इत्यत्र युक्तोऽभिमतस्तद्वाची न भवति।
"नियुक्तोऽधिकृतः" इत्यनेन "युजिर्? योगे" (धा।पा।१४४४) इत्यस्य निष्ठायां नियुक्त इत्येतद्रूपमिति दर्शयति।
"काण्डलावः" इति। अत्र काण्डलवनक्रियां प्रति कर्तृत्वमात्रं गम्यते, नादिकृतत्वम्()। तेनेष स्वरो न भवति॥