उतरपदार्थबहुत्वे यो बहुशब्दो वर्तते तस्मात् नञ इव स्वरो भवति। नञ्सुभ्याम्
६।२।१७१ इत्युक्तम्, बहोरपि तथा भवति। बहुयवो देशः बहुव्रीहिः। बहुतिलः। कपि पूर्वम्
६।२।१७२ इत्युक्तम्, बहोरपि तथा भवति। बहुकुमारीको देशः। बहुवृषलीकः। बहुब्रह्मबन्धूकः। ह्रस्वान्ते ऽन्तो ऽन्त्यात् पूर्वम्
६।२।१७३ इत्युक्तम्, बहोरपि तथा भवति। बहुयवको देशः। बहुव्रीहिकः। बहुमाषकः। नञो जरमरमित्रमृताः
६।२।११५ इत्युक्तम्, बहोरपि तथा भवति। बहुजरः। बहुमरः। बहुमित्रः। बहुमृतः।
उत्तरपदभूम्नि इति किम्? बहुषु मनः अस्य बहुमनाः अयम्।
"नञ्सुभ्याम्()" (६।२।
१७२) इत्यादिभिर्योगैर्नञ उत्तरस्य यत्? स्वरवनिधानं तद्बहोरपि यथा स्यादित्येवमर्थमिदम्()। नञ इव नञ्वत्()। बहोर्भावो भूमा, पृथ्वादित्वादिमनिच्(), "बहोर्लोपो भू च बहोः"
६।४।१५८ इति भूभावः। उत्तरपदस्य भूमेति षष्ठीसमासः। अथातिदेशः किमर्थः, न "नञ्सुबहुभ्य उत्तरपदभूम्नि" इत्येवोच्येत; न चैवं योगे क्रियमाणे नञ्स्वोरप्युत्तरपदभूम्नीत्येतद्विशेषणमापाद्यते; सम्भवापेक्षत्वादस्य, यथैव हि" हल्ङ्याब्भ्यो दीर्घात्()"
६।१।६६ इत्यत्र दीर्घग्रहणं सम्भवापेक्षं विशेषणं ङ्यापोरेव भवति न हलः; तथैतदपि बहोरेव भविष्यति न नञ्स्वोः,
न हि तयोरुत्तरपदार्थबहुत्वे बृत्तिः सम्भवतीति? एवं तर्हि यदपि विदेशस्थं नञोपलक्षितं बहुव्रीहेः स्वरविधानम्(), तदप्यस्मादतिदेशाद्यथा स्यादित्येवमर्थोऽयमतिदेशः क्रियते। तेन "नञो जरमरमित्त्रमृताः"
६।२।११५ इत्युत्तरपदाद्युदात्तत्वमपि बहोरतिदिश्यते। "बहुमनाः" इति। अत्रोत्तरपदबहुत्वे बहुशब्दो न वर्तते॥