सूत्रम्
विभाषा तृन्नन्नतीक्ष्णशुचिषु॥ ६।२।१६०
काशिका-वृत्तिः
विभाषा तृन्नन्नतीक्ष्णशुचिषु ६।२।१६१
तृन्नन्त अन्न तीक्ष्ण शुचि इत्येतेषु नञ उत्तरेषु विभाषा अन्तः उदात्तो भवति। तृन् अकर्ता, अकर्ता। अन्न अनन्नम्, अनन्नम्। तीक्ष्ण अतीक्ष्णम्, अतीक्ष्णम्। शुचि अशुचिः, अशुचिः। पक्षे ऽव्ययस्वर एव भवति।
न्यासः
विभाषा तृन्नन्नतीक्ष्णशुचिषु। , ६।२।१६०
तृन्निति प्रत्ययग्रहणम्(), तेन पूर्ववत्? तदन्तस्योपस्थानम्()। अन्नादीनि प्रातिपदिकानि। "अकत्र्ता" इति। ताच्छीलिकस्तृन्()। तेन नित्स्वरेणाद्युदात्तः कर्त्तृशब्दः। अन्नशब्दोऽपि "नब्विषयस्य" (फि।सू।२।२६) इति। "कृत्यसूभ्यां क्स्नः" (द।उ।५।४९) इति "तिजेर्दीर्घश्च" (द।उ।५।५०) इति तीक्ष्णशब्दोऽन्तोदात्तः। "इन्()" (द।उ।१।४६) इति वत्र्तमाने "इगुपधातु कित्()" (द।उ।१।४८), तेन शुचिशब्द आद्युदात्तः॥