भगालमित्यर्थग्रहणम्(); अर्थप्रधानत्वान्निर्देशस्य, अर्थप्रधाने हि निर्देश स्वरूपग्रहणं न भवतीत्युक्तम्()।
अर्थग्रहणे च सति तद्वाचिनामेतत्? कार्यं विज्ञायते। अत एवाह--"भगालवाचि" इत्यादि। "कुम्भीभागालम्()" इति। कुम्भीशब्दः "जातेरस्त्रीविषयादयोषदात्()"
४।१।६३ इति ङीषन्तत्वादन्तोदात्तः। "भगालादयो मध्योदात्ताः" इति। "लगावन्ते द्वयोश्च बहवषो गुरुः" (फि।सू।२।४२) इति फिषैषामाकारस्योदात्तत्वविधानात्()॥