षट् पुर्वोक्तानि काण्डादीनि उत्तरपदानि अप्राणिषष्ठ्या आद्युदात्तनि भवन्ति। काण्डं गहार्याम् इत्युक्तम्, अगर्हायाम् अपि भवति। दर्भकाण्डम्। शरकाण्डम्। चीरम् उपमानम्
६।२।१२६ इत्युक्तम्, अनुपमानम् अपि भवति। दर्भचीरम्। कुशचीरम्। पललसूपशाकं मिश्रे
६।२।१२७ इत्युक्तम्, अनुपमानम् अपि भवति। दर्भचीरम्। कुशचीरम्। पललसूपशाकं मिश्रे
६।२।१२७ इत्युक्तम्, अमिश्रे ऽपि भवति। तिलपललम्। मुद्गसूपः। मूलकशाकम्। कूलं संज्ञायाम्
६।२।१२८ इत्युक्तम्, असंज्ञायाम् अपि भवति। नदीकूलम्। समुद्रकूलम्।
षटिति किम्? राजसूदः।
"चेलखेटकटुककाण्डम्()" (६।२।
१२६) इत्यादिषु चतुर्षु योगेषु सन्निविष्टानि काण्डादीनि षट्? गृह्रन्ते। यद्येवं तैरेव योगैरेषामाद्युदात्तत्वं सिद्धम्(),
तत्किमर्थमिदम्()? यत्र तैर्विहित ततोऽन्यत्रापि यथा स्यात्? प्राणिषष्ठ()आश्च मा भूदित्येवमर्थञ्च। "दर्भकाण्डम्()" इति। "दृ()दलिभ्यां भः" (पं।उ।३।१५१) इति भप्रत्ययान्तो दर्भशब्दोऽन्तोदात्तः। "तृणधान्यानाञ्च द्व्यषाम्()" (फि।सू।२।२७) इति वा। "शरकाण्डम्()" इति। शरशब्दोऽप्यनन्तरेणैव "द्व्यषाम्()" इत्याद्युदात्तः। एवं कुशशब्दोऽपि। तथा तिलशब्दोऽपि। पललमूलकशब्दावुक्तस्वरौ। नदडति पचादिषु पठ()ते,
तेन टित्त्वान्नदशब्दान्ङीप्? "यस्येति च"
६।४।१४८ इत्यकारलोपः, "अनुदात्तस्य च यत्रोदात्तलोपः"
६।१।१५५ इति ङीप उदात्तत्वम्()। तेन नदीशब्दोऽन्तोदात्तः। "पाटलापालङ्काम्बासागरार्थानाम्()" (फि।सू।१।२) इति फिषा समुद्रशब्दोऽन्तोदात्तः। "राजसूदः" इति। शूदशब्दः षङ्भ्यः परः पठ()ते। तेनात्र समासान्तोदात्तत्वमेव भवति। सर्वे च ते दर्भकाण्डादयः षष्ठीसमासाः॥