शालशब्दः "कूलतीर"
६।२।१२० इत्यत्रोक्तस्वरः। "ब्राआहृणशालम्(), क्षत्त्रियशालम्()" इति ब्राआहृणशब्दोऽणन्तत्वादन्तोदात्तः। क्षत्रियशब्दस्तु मध्योदात्तः,
"क्षत्राद्? धः"
४।१।१३८ इति घप्रत्ययान्तत्वात्()। "दृढशालम्()" इति। बहुव्रीहिरयम्(), तेन पूर्वपदप्रकृतिस्वर एव भवति। पूर्वपदं च निष्ठान्तत्वादन्तोदात्तम्()। ननु च लक्षणप्रतिपदोक्तपरिभाषया (व्या।प।३) "विभाषा सेना"
२।४।२५ इति प्रतिपदोक्ता या नपुंसकलिङ्गता सैव ग्रहिष्यते। न हि दृढशालमित्यत्र प्रतिपदोक्ता नपुंसकता,
किं तर्हि? अभिधेयवशेन लक्षणोक्ता "अभिधेयवल्लिङ्गवचनानि भवन्ति" (व्या।प।७३) इति।
तत्? किमेतन्निवृत्यर्थेन तत्पुरुषग्रहणेन? एवं तर्ह्रु त्तरार्थं तत्पुरुषग्रहणम्()। "चेलखेट कटुककाण्डं गर्हायाम्()" (६।२।
१२६) इत्यनेन दधि च तत्? कटुकं चेति दधिकटुकमित्यत्रैव यथा स्यात्()। दधिकटुकम्(), "उद()इआत्कटुकम्()" इति। उत्तरार्थं तु तत्क्रियमाणं विस्पष्टार्थत्वमुपपादयतीत्येतदर्थमपि भवति। लक्षणप्रतिपदोक्तपरिबाषा (व्या।प।
३) चेह नाश्रयितव्या भवति--एतदर्थं तत्पुरुषग्रहणस्य दृढशालमित्येतत्? प्रत्युदाहरणमुपन्यस्तम्()॥