शृङ्गशब्दः उत्तारपदम् अवस्थायां संज्ञौ पम्ययोश्च बहुव्रीहौ आद्युदात्तं भवति। उद्गतशृङः। द्व्यङ्गुलशृङ्गः। अत्र शृङ्गोद्गमनादिकृतो गवादेर्वयोविशेषो ऽवस्थ। अस्ंज्ञायाम् ऋष्यशृङ्गः। औपम्ये गोशृङ्गः मेषशृङ्गः। अवस्थादिषु इति किम्? स्थूलशृङ्गः।
"उद्गतशृङ्गः" इति। "गन्गम्यद्योः" (पं उ।१।
१२२) इत्यधिकृत्य "भृञः किन्नुट्? च" (पं।उ।१।१२४) इति च "शृणातेह्र्यस्वश्च" (पं।उ।१।१२५) इति गन्प्रत्ययान्तः शृङ्गशब्दो व्युत्पाद्यते। तेनायमाद्युदात्तः। उद्गतशब्दस्थाथादि
६।२।१४३स्वरेणान्तोदात्तः। "द्व्यङ्गुलशृङ्गः" इति। द्वे अङ्गुली प्रमाणमस्येति तद्धितार्थे द्विगुः "प्रमाणे द्वयसच्()"
५।२।३७ इत्यादिना विहितस्य मात्रच आगतस्य लोपः। "प्रमाणे लो द्विगोर्नित्यम्()" (वा।५५८,५५९) इति "तत्पुरुषस्याङ्गुलेः संख्याव्ययादेः" (५।४।
८६) इत्यच्? समासान्तः। तेन द्व्यङ्गुलशब्दोऽन्तोदात्तः। द्व्यङ्गुलं शृङ्गमस्येति। "त्त्रङ्गुलशृङ्गः" इति। पूर्वेण तुल्यम्()। "अत्र" इत्यादि। आदिशब्देन द्व्यङ्गुलाविग्रहणम्()। "ऋष्यशृङ्गः" इति। ऋष्यं शृङ्गंयस्येति। "अध्र्यादयश्च" इत्याद्युदात्त ऋष्यशब्दो निपात्यते। "मेषशृङ्गः" इति। मेषस्येव शृङ्गो यस्येति "मिष स्वर्धायाम्()" (धा।पा।१३५२),
अस्मात्? पचाद्यच्()। तेन मेषशब्दोऽन्तोदात्तः।
"स्थूलशृङ्गः" इति। स्थूलशब्दः प्रातिपदिकस्वरेणान्तोदात्तः॥