प्रथमावृत्तिः
सूत्रम्॥
ओमाङोश्च॥ ६।१।९२
पदच्छेदः॥
ओमाङोः ७।२ च ० पररूपम् १।१ ९१ आत् ५।१ ८४ एकः १।१ ८१ पूर्व-परयोः ६।२ ८१ संहितायाम् ७।१ ७०
समासः॥
ओम् च आङ् च ओमाङौ, तयोः ॰ इतरेतरद्वन्द्वः॥
अर्थः॥
ओमि आङि च परतः अवर्णात् पूर्वपरयोः स्थाने पररूपमेकादेशः भवति, संहितायां विषये॥
उदाहरणम्॥
कन्या + ओम् = कन्योम् इत्यवोचत्। आ + ऊढा = ओढा, अद्य + ओढा = अद्योढा, कदोढा, तदोढा॥
काशिका-वृत्तिः
ओमाङोश् च ६।१।९५
आतित्येव। अवर्णान्तातोमि आङि च परतः पूर्वपरयोः स्थाने पररूपम् एकादेशो भवति। का ओम् इत्यवोचत्, कोम् इत्यवोचत्। योम् इत्यवोचत्। आगि खल्वपि आ ऊढा ओढा। अद्य ओढा अद्योढा। कदा ओढा कदोढा। तदा ओढा तदोढा। वृद्धिरेचि
६।१।८५ इत्यस्य पवादः। इह तु आ ऋश्यातर्श्यात्, अद्य अर्श्यातद्यर्श्यातिति अकः सवर्णे दीर्घत्वं बाधते।
लघु-सिद्धान्त-कौमुदी
ओमाङोश्च ४०, ६।१।९२
ओमि आङि चात्परे पररूपमेकादेशः स्यात्। शिवायोंं नमः। शिव एहि॥
लघु-सिद्धान्त-कौमुदी
तृज्वत्क्रोष्टुः २०४, ६।१।९२
असम्बुद्धौ सर्वनामस्थाने परे। क्रोष्टुशब्दस्य स्थाने क्रोष्टृशब्दः प्रयोक्तव्य इत्यर्थः॥
न्यासः
ओमाङोश्च। , ६।१।९२
"अद्योढा" इति। अद्य+ओढा। ननु च "आदगुणः" (६।१।
८७) इत्यनेनाङो निवर्त्तितत्वादिदमाङ उदाहरणं युज्यते? आङ्माङोरेकादेशस्त्वाङ्ग्रहणेन गुह्रत इत्यदोषः। पूर्वमेव हीदमुक्तम्()--"द्वयोः षष्ठीनिर्दिष्टयोः स्थाने यो भवति लभतेऽसावन्यतरव्यपदेशम्()" इति। किमर्थं पुनराङो ग्रहणम्(), यावता प्रागेवाङः पूर्वेम सह "अकः सवर्णे दीर्घः"
६।१।९७ इति दीर्घत्वे कृते ततः परेण सह "आद्गुणः" (६।१।
८७) इति गुणे चाद्योढेत्यादि सिद्धमेव? न सिध्यति, यतः "धातूपसर्गयोः कार्यमन्तरङ्गम्()" (व्या।वृ।३७) इति पूर्वमाद्गुणेन भवितव्यम्(), तथा च सति वृद्धिः स्यात्()। अत आङोऽपि ग्रहणं कत्र्तव्यम्()।
"इह त्वकः सवर्णे दीर्घत्वं बाध्यते" इति। अस्य विधेरविशेषविहितत्वात्(), अकः सवरणे दीर्घस्य च सामान्यविहितत्वात्()। विशेषविहितोऽपि सामान्यविहितस्य बाधको भवतीति प्रतिपादितमेतत्()॥
बाल-मनोरमा
ओमाङोश्च ८०, ६।१।९२
ओमाङोश्च। ओम् च आङचेति विग्रहः। आदिति पररूपमिति चानुवरग्तते, एकः पूर्वपरयो"रिति च। तदाह--ओमीत्यादिना। शिवार्योनम इति। अत्र वृदिं()ध बाधित्वा पररूपम्। शिवहीति। आःइहीति स्थिते गुणे "एही"ति रूपम्। ततः शिव-एहि इति स्थिते वृदिं()ध बाधित्वा पररूपमेकारः। नच "शिव-अःइही"ति स्थिते सवर्णदीर्घे कृते पश्चाद्गुणे शिवेहीति रूपसिद्धेराङ्ग्रहणं व्यर्थमिति वाच्यं, "धातूपसर्गयोः कार्यमन्तरङ्ग"मिति न्यायेन प्रथमाद्गुण इति गुणे कृते शिव-एहीति स्थिते वृद्धौ प्राप्तायां तन्निवृत्त्यर्थत्वात्। भाष्ये तु-आ ऋश्यात्, गुणः अश्र्यात्, अद्य-अश्र्यात्-अद्यश्र्यादित्यत्र सवर्णदीर्घनिवृत्त्यर्थमाद्ग्रहणमिति स्थितम्।
तत्त्व-बोधिनी
ओमाङोश्च ६८, ६।१।९२
शिवेहीति। ननु "शिव आ इही"त्यत्र सवर्णदीर्घे कृते पश्चादाद्गुणे च सिद्ध मिष्टं तत्किमाङ्ग्रहणेन?। सत्यम्। "पूर्वं धातुरूपसर्गेण युज्यते" इति दर्शने "धातूपसर्गयोः कार्यमन्तरङ्ग"मिति पूर्वं गुणे कृते वृद्धिः स्यात्, तन्मा भूदित्याग्रहणम्।
अव्यक्तानुकरणस्यात इतौ। यद्यपि "अतो गुणे" इति पूर्वसूत्रादत इत्यनुवर्त्त्याऽतो ग्रहणमिह त्यक्तुं शक्यं, तथापि पूर्वसूत्रे "अत"इति तपरकरणाद्ध्रस्वाकारस्य ग्रहणमिह तु शब्दाधिकारपक्षाश्रयणादच्छब्दस्य ग्रहणमिति व्याख्याने क्लेशः स्यादिति पुनरत्राऽतो ग्रहणं कृतम्।
"अव्यक्त"शब्दं व्याचष्टे-ध्वनेरिति। अनुकरणस्येति। परिस्फुटाऽकारादिवर्णस्येति भावः। तस्य चानुकरणत्वं किंचित्साम्येन बोध्यम्। पररूपस्याऽस्य नित्यत्वेऽपि संहितायामविवक्षितायां तदभावादाह-पटत्-इतीदी।