सूत्रम्
वा सुप्यापिशलेः॥ ६।१।८९
काशिका-वृत्तिः
वा सुप्यापिशलेः ६।१।९२
आतित्येव, उपसर्गातृति धातौ इति च। सुबन्तावयवे धातौ ऋकारादौ परतः अवर्णान्तातुपसर्गात् पूर्वपरयोः आपिशलेराचार्यस्य मतेन वा वृद्धिरेकादेशो भवति। उपर्शभीयति, उपार्षभीयति। उपल्कारीयति, उपाल्कारीयति। ऋकारलृकारयोः सावर्ण्यविधिः इति ऋति इति लृकारो ऽपि गृह्यते। आपिशलिग्रहणं पूजर्थम्, वा इति ह्युच्यते एव।
न्यासः
वा सप्यापशलेः। , ६।१।८९
धातावित्यनुवर्तते, सुपीति चोच्यते, न च सुबन्तो धातुरस्ति, तत्र समथ्र्याद्धात्वेकदेशे वत्र्तमानं सुपत्येतदिह विशेषणं विज्ञायते, इत्याह--"सुबन्तावयवे धातौ" इत्यादि। "उपाल्कारीयति" इति। कथं पुनरृतीतयुच्यमाने लुकारे वृद्धिः प्रवत्र्तते? इत्याह--"ऋकारलृकारयोः" इत्यादि। ऋकारलृकारयोः सवर्णसंज्ञा विहितेति ऋकारो गृह्रमाण लृकारमपि ग्राहयतीति तत्रापि वृद्धिर्भवति।
"आपिशलिग्रहणं पूजार्थम्()" इति। अथ विकल्पार्थं कस्मान्न भवति? इत्याह---"वेत्युच्यत एव" इति। यद्यप्याचार्यग्रहणेनैव पूजा, विकल्पश्चोभयं सम्पद्यते; तथाप्याचार्यग्रहणस्य प्राधान्येन पूजां ख्यापयितुं वाग्रहणं कृतमिति भावः॥
बाल-मनोरमा
वा सुप्यापिशलेः ७८, ६।१।८९
न भवतीति। परोऽपि प्रकृतिभावः पुनर्विधानसामथ्र्याद्बाध्यत इत्यर्थः। वा सुपि। उपसर्गादृति धाताविति पूर्वसूत्रमनुवर्तते। आद्गुण #इत्यतो वृद्धिरेचीत्यतश्च आदिति वृद्धिरिति चानुवर्तते। आदित्यनेन उपसर्गादिति विशेष्यत इति तदन्तविधिः। प्रत्ययग्रहणपरिभाषया सुप्शब्देन सुबन्तप्रकृतिको धातुर्विवक्षितः। एकः पूर्वपरयोरिति चाधिकृतम्। तदाह--अवर्णान्तादित्यादिना। सुब्धाताविति। सुबन्तप्रकृतकधातौ परत इत्यर्थः, सुबन्तस्य धातोरसंभवात्। एकादेश इति। "पूर्वपरयोरचो"रिति शेषः। यद्यपि ऋच्छ गतावित्यादीनां क्विपि धातुत्वं सुबन्तत्वं च संभवति, तथापि तुस्यास्यसूत्रभाष्ये उपार्कारीयतीत्यादेरेतदुदाहरणत्वेन भाष्ये उक्तत्वात्सुबन्तप्रकृतिके इत्येव व्याख्यानमुचितम्।
ननु वाग्रहणादेव सिद्धे आपिशालिग्रहणं व्यर्थमित्यत आह--आपिशलिग्रहणमिति। आपिशलेराचार्यस्याप्ययमर्थः संमत इत्यादेर्लाभार्थमित्यर्थः। प्रार्षभीयतीति। ऋषभमात्मन इच्छतीत्यर्थे "सुप आत्मनः क्यच्""सनाद्यन्ताः" इति धातुत्वम्। "सुपो धातुप्रातिपदिकयोः" इति सुपो लुक्। "क्यचि चे"ति ईत्वम्। लट्, तिप्, शप्। पररूपम्। प्र ऋषभीयति इति स्थितेऽनेन वृद्धिराकारः। रपत्वम्। प्रर्षभीयतीति। वृद्ध्यभावपक्षे आद्गुणः, रपरत्वम्। सावण्र्यादिति। ऋलृवर्णयोरिति सावण्र्यादृतीत्यनेन लृतोऽपि ग्रहणमित्यर्थः। उपाल्कारीयतीति। लृकारमात्मान इच्छतीत्यर्थे क्यजादि पूर्ववत्। लपरत्वं विशेषः। उपल्कारीयतीति। वृद्ध्वभावादत्र गुणः। लपरत्वम्। तपरत्वादिति। ऋतीति तपरकरणेन तत्कालस्यैव ग्रहणाद्दीर्घऋकारे परे वृद्धिविकल्पोऽयं न भवति, किं तु गुण एवेत्यर्थः। ऋकारीयतीति। ऋकारमात्मन इच्छतीत्यर्थे क्यजादि पूर्ववत्। वृद्ध्यभावादत्र गुण एव।
तत्त्व-बोधिनी
वा सुप्यापिशलेः ६५, ६।१।८९
सुब्धाताविति। सुबन्तावयवके इत्यर्थः। सुबन्तस्य धातोरसंभवात्। यद्यपि "ऋज गतौ" इत्यादीनां क्विपि धातुत्वं सुबन्तत्वं च संभवति, तथापि न तादृशेषु तपरत्वव्यावर्त्त्यत्वं प्रसिद्धं, नामधातुष्वेव तत्संभवतीति न त एवेह गृह्रन्ते इति भावः। प्रार्षभीयतीति। "शरोऽची"ति वक्ष्यमाणेन द्वित्वनिषेधः।