स्नुक्, स्नुग्, स्नुट्, स्नुड्। एवं स्निक्, स्निग्, स्निट्, स्निड्॥ विश्ववाट्, विश्ववाड्। विश्ववाहौ। विश्ववाहः। विश्ववाहम्। विश्ववाहौ॥
"सिञ्चिति" इति। "शे मुचादीनाम्()"
७।१।५९ इति नुम्()।
"षोडश" इति।
षट्? वा दश वास्येति "संख्यायाव्यय"
२।२।२५ इत्यादिना बहुव्रीहिः, "संख्येये ङच्()"
५।४।७३ इत्यादिना समासान्तो ङच्()। "षोडन्()" इति।
षट्? दन्ता अस्येति बहव्रीहिः, "वयसि दन्तस्य दतृ"
५।४।१४१ इति दन्तशब्दस्य दत्रादेशः। "षष उत्त्वं दतृदशधासूत्तरपदादेः ष्टुत्वं च" (वा।७६५) इति षष उत्वम्(), उत्तरपदादेश्च ष्टुत्वम्()--डकारः। "षण्डः" इति। प्रातिपदिकान्तमेतदव्युत्पन्नम्()। "षडिकः इति। अनुकम्पितः षडङ्गुलिदत्त इति "बह्वचो मनुष्यनाम्नष्ठच्()" (५।३।
७८) इति ठच्? ठाजादावूध्र्वं द्वितीयादचः"
५।३।८३ इत्यङ्गुलिदत्तशब्दस्य लोपः। ननु च "लिटि धातोः"
६।१।८ इत्यतोऽत्र धातुग्रहणमनुवर्त्तिष्यते,
तदिह किं पुनर्धातुग्रहणेन? एवं तरह्हि एतज्ज्ञापयति--तन्निवृत्तमिति। तस्य ह्रनुवृत्तौ "लोपो व्योर्वलि
६।१।६४ इत्ययमपि लोपो धात्ववयवस्यैव विज्ञायते। क्नूयी (धा।पा४८५), क्तः--क्नूतः क्ष्मयी (धा।पा।४८६), क्तः--क्ष्मात इत्यत्रैव स्यात्(); गौधरः, पचेरन्नित्यत्र न स्यात्()। नन्वेवमपि धातुग्रहणमनर्थकमेव, यस्मादुपदेश इति वत्र्तत एव, न च प्रातिपदिकानामुपदेशः,
केषां तर्हि उपदेशः? धातूनाम्()? नैतदस्ति; उपदेशाधिकारो।()युपदेशग्रहणेन षकारो विशिष्यते, षषश्च षकार उपदेशो भवति। "षष उत्त्वं दतृदशधासूत्तरपदादेः (वा।७६५) इति सूत्रे पाठात्()।
तस्मात्? धातुग्रहणं कत्र्तव्यम्()। "कषति" इति। भ्वादौ कषसिधेत्यादिहिसार्थो धातुवर्गे पठ()ते। "लषति" इति। "लष कान्तो"(धा।पा।८८८) अनयोरादिगारहणस्य भवति। ननु चोपदेशसामथ्र्यादेवात्र न भविष्यतीति,
अन्यथा ह्रुपदेशस्य वैयथ्र्य स्यात्()? नैतस्ति; अस्ति ह्रन्यतूपदेशस्य प्रयोजनम्()। किं तत्()?--"शेषे विभाषाऽकखादाववान्त उपेदेशे"
८।४।१७ इत्यत्र केषेग्र्रहणं मा भूत; लेषतुः, लेषुरिति षत्वं यथा स्यात्()।
किमर्थं पुनः षादयो उपद्ष्टाः, न सादयो ह्रुपदिश्येरन्(),
एवं ह्रेतत्? सूत्रं न कत्र्तवयं भवति? इत्यत आह--"आदेशप्रत्ययोः" इत्यादि। षत्वव्यवस्थां=षत्वनियमः। "आदेशप्रत्यययोः"
८।३।५९ इत्यनेन सहादीनामेव षत्वव्यवस्था यथा स्थादित्येवमर्थम्()। षादपः केचिदुपदिष्टाः अन्यथा सहादीनां षत्वार्थ यत्नान्तरं कत्र्तव्यं स्यात्()। तच्च गुरु भवतीत्यभिप्रायः। यद्यपि षकारादिषु सन्देहो न भवति, सकारादिषु च भवत्येव। अत्र हि न ज्ञायते--किं षोपदेशा एव सन्तः "धात्वादेः षः सः" (६।१।
६४) इत्यनेन कृतसत्वा उच्चारिताः? उत सकारादय एव? इति सन्दिह्र पृच्छति--"के पुनस्ते" इति। "ये यथा पठ()न्ते" इति।
षादयो ये यथा पठ()न्ते सन्निधानात्? त एव षोपदेशा अवगन्तव्याः। "अज्दन्त्यपराः" इत्यादि। अज्दन्त्यौ परौ येषामिति तेऽब्दन्त्यपराः। परशब्दोऽत्रावयवे वत्र्तते।
तच्चाच्दन्त्ययोः परत्वमवयवान्तरापेक्षं विज्ञायमानं सन्निधानात्? सकारापेक्षं विज्ञायते। "स्मिस्विदिस्वञ्जिस्वपयश्च" इति। "ष्मिङीषद्धमने" (धा।पा।९४८), "ञिष्विदा गात्रप्रक्षरणे" (धा।पा।११८८), "ष्वन्ज परिष्वङ्गे" (धा।पा।
९७६) "ञिष्वप्? शये" (धा।पा।१०६८) एते स्वरूपेणाख्यायन्ते; मकारवकारयोरज्दन्त्यत्वाभावात्()। केचित् स्मिस्वदिस्वदिस्वञ्जिस्वपयश्चेति स्विदिस्थाने स्वदिं पठन्ति, तेषां "तेषां स्वद ["ष्वद"--धातुपाठः ] स्वर्द आस्वादने" (धा।पा।१८,१९) इति स्वदिरपि षोपदेश एव। "सृपिसृजिस्तृस्त्यासेकृसृवर्जम्()" इति। "गम्लु सुप्लृ गतौ (धा।पा।९८२,९८३), "सृज विसर्गे (धा।पा।११७८),
"स्तृञ्? आच्छादने" (धा।पा।१२५२), "ष्ट() स्त्यै शब्दसङ्घातयोः", (धा।पा।९११,९१०) "सेक [सेकृ, रुओक--धा।पा।] सेकृ श्रकि श्लकि गत्यर्थाः" (धा।पा।८१,८२,८४,८५), "सृ गतौ" (धा।पा।
९३५) एतान्? वर्जयित्वा येऽन्येऽज्दन्तत्यपरास्ते षोपदेशाः।
"सुब्धातु" इत्यादि। सुब्धातुः क्यजाद्यन्तः।
"ष्ठिच्? निरसने" (धा।पा।
५६०), "ष्वक्क [अत्रत्याःधातवः केचन धातुपाठे न सन्ति] वुक्क मक्कतिक्क टिक्क टीक्क वगि लगि गत्यर्थाः--एषां प्रतिषेधो वक्तव्यो व्याख्येय इत्यर्थः।
तत्रेदं व्याख्यानम्()--सुब्धातौतावत्? षोडीयतीत्यादौ नैव धात्वादिः षकारः, तथा ह्रादिरवयवः। आरम्भकश्चावयवो भवति, सुब्दातुः सबन्तेन क्यचा चारभ्यते।
न च षकारेणापि वर्णान्तरेणेति कुतस्तस्य षकारादित्वम्()? सहादयस्तु षकारादिभिरेव वर्णेरारभ्यन्त इति युक्तं तेषां षकारादित्वम्()। ष्ठिवेरपि निपातनान्न भवति,
किं तन्निपातनम्()? "ष्टिवुक्लमुचमां शिति"
७।३।७५ इति। यस्य हि सत्वं भवति तमयं प्रदेशेषु कृतसत्बमेवोच्चारयति यथा प्रदेशे--"स्थाध्वोरिच्च"
१।२।१७ इति। ष्वक्केरप्यज्दन्त्यपरा इत्यनेन निवर्त्तितत्वान्न भवति। वकारस्य दन्त्यौष्ठ()त्वादज्दन्त्यग्रहणेन न गृह्रते।
अथ वा यादित्यात्? ष्ठिवुष्वक्कोर्न भविष्यति, यकारस्तु लुप्तनिर्दिष्टत्वान्न श्रूयते। अथ वा--अन्यतरस्यांग्रहणमत्रानुवत्र्तते सा च व्यवस्थितविभाषा विज्ञायते, तेन सुब्धात्वादीनां न भवतीति। "षष्ठीवति" इति। "ष्ठिवुक्लमुचमां शिति"
७।३।७५ इति दीर्घः। "ष्वक्कते" इति। अनुदात्तेत्त्वादात्मनेपदम्()।
अथ ष्ठिवो द्वितीयवर्णः किं ठकार इष्यते? उत थकारः? यदि ठकारस्तदा सिद्धम्()--टेष्ठीष्यत इति, न सिध्यति--तेष्ठीव्यत इति, "अभ्यासे चर्च्च"
८।४।५३ इति टकार एवान्तरतमष्ठकारस्य स्थाने प्राप्नोतीति कृत्वा; अथ थकारस्तदा सिद्धम्()--तेष्ठीव्यत इति, एतन्न सिध्यति--टेष्ठीव्यत इति, आन्तरतम्याद्विधीयमानस्थकारस्य स्थाने तकार एव प्राप्नोतीत्यत आह--"ष्ठिवु इत्येतस्य" इत्यादि। ब्यासस्य द्वैरूप्यं यथा स्यादिति। केचिदाचार्येम शिष्या "ठकारोऽयम्()" इत्युपदिष्टाः। अपरे पुनः "थकारोऽयं ष्टुत्वेन ठकारः श्रूयते" इतीममर्थं ग्राहिताः।
उभयं चैतत्? प्रयोजनम्()। अन्ये पुनरहुः--ष्ठिवुर्दिवादिष्वपि पुनरधीयते, तत्रैकस्य द्वितोयस्थाकारः, अपरस्य तु ठकार इति। तेष्ठीव्यत इति "शर्पूर्वाः खयः"
७।४।६१ शेषः॥