निष्था च द्व्यजनात्
६।१।१९९। इत्यतो द्व्यज्ग्रहणम् अनुवर्तते। यत् प्रत्ययान्तस्य द्व्यच आदिरुदात्तो भवति न चेन् नौशब्दात् परो भवति। अचो यत्
३।१।९७ च इयम्। जेयम्। शरीरावयवाद् यत्
५।१।६ कण्ठ्यम्। ओष्ठ्यम्। तस्वरितम्
६।१।१७९ इत्यस्य अपवादः।
अनावः इति किम्? नाव्यम्। द्व्यचः इत्येव, चिकीर्ष्यम्। ललाट्यम्।
"कण्ठ()म्(), ओष्ठ()म्()" इति। भावार्थे तद्धितः। "नाव्यम्()" इति। नावा तार्यमित्यस्मिन्नर्थे "नौवयोधर्म"
४।४।९१ इत्यादिना यत्()। अत्र "वान्तो यि प्रत्यये" (६।१।
७९) इत्यवादेशे कृते व्यञ्जनस्य स्वरविधावविद्यमानत्वात्? ततः पूर्वस्य स्यादिति नावः प्रतिषेधः क्रियते। "ललाट()म्()" इति। "शरीरावयवाद्यत्()"
५।१।६ इति यत्()॥