रिक्तशब्दे विभाष आदिरुदात्तो भवति। रिक्तः, रिक्तः। संज्ञायाम्, निष्ठा च द्व्यजनात्
६।१।१९९ इत्यनेन पूर्वविप्रतिषेधेन नित्यम् आद्युदात्तः।
"रिक्तः" इति।
"रिचिर्? विरेचने" (धा।पा।१४४१)। प्रत्ययस्वरे प्राप्त आदेर्विभाषोदात्तत्वं विधीयते। "संज्ञायाम्()" इत्यादि। "निष्ठा च द्व्यजनात्()"
६।१।१९९ इत्यस्यावकाशः--दत्तः, गुप्त इति। अस्यावकशोऽसंज्ञायाम्()--रिक्तो घट इति;
यदा तु रिक्तशब्दः कस्यचित्? संज्ञा भवति तदोभयोः प्राप्तौ पूर्वविप्रतिषेधेन "निष्ठा च द्व्यजनात्()"
६।१।१९९ इति नित्यमाद्युदात्तो भवति।
न च पूर्वविप्रतिषेधो वक्तव्यः, परशब्दस्येष्टवाचित्वात्()॥