अष्टनो दीर्घान्तादसर्वनामस्थानविभक्तिरुदात्ता भवति। अष्टाभिः। अष्टाभ्यः। अष्टासु। घृतादिपाठातष्टन्शब्दो ऽन्तोदात्तः, तत्र ज्ञल्युपोत्तमम्
६।१।१७४ इत्यस्य अपवादो विभक्तिरेव उदात्तत्वं विधीयते।
दीर्घातिति किम्? अष्टसु प्रक्रमेषु ब्राह्मणो ऽग्नीनादधीत। इदम् एव दीर्घग्रहणम् अष्टन आत्त्वविकल्पं ज्ञापयति, कृतात्वस्य च षट्संज्ञां ज्ञापयति। अन्यथा ह्यात्वपक्षे सावकाशो ऽष्टनः। स्वरः परत्वादनात्वपक्षे षट्स्वरेण बाधिष्यते इति किम् दीर्घग्रहणेन।
"अष्टाभिः" इत्यादि। "अष्टन आ विभक्तौ"
७।२।८४ इत्यात्त्वम्()।
"अष्टसु" इति। ननु चात्रापि भवितव्यमेवात्वेन, न हि तद्विधौ विकल्पप्रतिपादकं वचनमस्ति,
नापि प्रकृतम्()? इत्यत आह--"इदमेव" इत्यादि। यदि हि नित्यमात्वं स्यादिह दीर्घग्रहणमनर्थकं स्यात्(), व्यावर्त्त्याभावात्(),
कृतात्वस्य च षट्संज्ञामिति? इदमेव हि दीर्घग्रहणमष्टनो ज्ञापयतीति सम्बन्धनीयम्()।
कथं पुनज्र्ञापयति? इत्याह--"अन्यथा हि" इत्यादि। दीर्घग्रहणं ह्रेवमर्थं क्रियते--यत्रात्वं नास्ति तत्रायं स्वरो मा भूदिति। यदि कृत्वपात्वसयाष्टनः षट्संज्ञा न स्यात्(), तदात्वपक्षे षट्संज्ञायामसत्यां सावकाशोऽष्टनः स्वरः, तत्रापि षट्()स्वरः प्राप्नोतीति कृत्वा। ततश्च यदि दीर्घग्रहणं न क्रियेत, तदानवकाशत्वाद्यदात्वपक्षेऽष्टनः स्वरो न भवति, तदेतरस्मिन्नपि पक्षे स्यात्()। अतस्तन्निवृत्त्ये दीर्घग्रहणं क्रियमाणमर्थवद्भवति। कृतात्वस्याष्टनः षट्संज्ञायाम्()--अष्टानामित्यत्र "षट्चतुभ्र्यश्च" (७।१।
५५) इति नुट्? सिद्धो भवति॥