सूत्रम्
उपात् प्रतियत्नवैकृतवाक्याध्याहारेषु॥ ६।१।१३४
काशिका-वृत्तिः
उपात् प्रतियत्नवैकृतवाक्याध्याहारेसु ६।१।१३९
सतो गुणान्तराधानमाधिक्याय वृद्धस्य वा तादवस्थ्याय समीहा प्रतियत्नः। विकृतम् एव वैकृतम्। प्रज्ञादित्वादण्। गम्यमानार्थस्य वाक्यस्य स्वरूपेण उपादानं वाक्यस्य अध्याहारः। एतेष्वर्थेषु गम्यमानेसु करोतौ धातौ परतः उपात् सुट् कात् पूर्वः भवति। प्रतियत्ने तावत् एधो दकस्य उपस्कुरुते। काण्डगुणस्य उपस्कुरुते। वैकृते उपस्कृतं भुङ्क्ते। उपस्कृतं गच्छति। वाक्याध्याहारे उपस्कृतं जल्पति। उपस्कृतम् अधीते। एतेषु इति किम्? उपकरोति।
लघु-सिद्धान्त-कौमुदी
उपात्प्रतियत्नवैकृतवाक्याध्याहारेषु च ६८६, ६।१।१३४
उपात्कृञः सुट् स्यादेष्वर्थेषु चात्प्रागुक्तयोरर्थयोः। प्रतियत्नो गुणाधानम्। विकृतमेव वैकृतं विकारः। वाक्याध्याहार आकाङ्क्षितैकदेशपूरणम्। उपस्कृता कन्या। उपस्कृता ब्राह्मणाः। एधोदकस्योपस्करोति। उपस्कृतं भुङ्क्ते। उपस्कृतं ब्रूते॥ वनु याचने॥ ७॥ वनुते। ववने॥ मनु अवबोधने॥ ८॥ मनुते। मेने। मनिष्यते। मनुताम्। अमनुत। मन्वीत। मनिषीष्ट। अमत, अमनिष्ट। अमनिष्यत॥
लघु-सिद्धान्त-कौमुदी
इति तनादयः ८ ६८६, ६।१।१३४
लघु-सिद्धान्त-कौमुदी
अथ क्र्यादयः ६८६, ६।१।१३४
लघु-सिद्धान्त-कौमुदी
डुक्रीञ् द्रव्यविनिमये १ ६८६, ६।१।१३४
न्यासः
उपात्प्रतियत्नवैकृतवाक्याध्याहारेषु। , ६।१।१३४
"सतः" इत्यादि। लब्धसत्ताकस्यार्थस्य पुर्वोत्पन्नोभ्यो गुणेभ्यो योऽन्यो गुणस्तद्गुणान्तरम्(), तदाधीयत उत्पाद्यते येन तद्गुणान्तराधानम्()। तत्पुनः किमर्थम्()? इत्याह--"आधिक्याय" इत्यादि। किं तत्()? इत्याह--"समीहा" इति। तदेवं विद्यमानस्य वस्तन आधिक्याय वृद्धये वृद्धस्य चैव तादवस्थ्याय तस्या वृद्धावस्थाया अपरिहाणाय गुणान्तराधानं ययाधीयते समीहयां चेष्टया स प्रतियत्न इत्युच्यते। "विकृतम्" इति। जातविक्रियमित्यर्थः। "गम्यमानार्थस्य वाक्यस्य स्वरपेण" इति। "समुदायेषु हि प्रवृत्ताः शब्दा अवयवेष्वपि वत्र्तन्ते" (व्या प।सू।८५) इति प्रतीयमानोऽर्थः प्रकरणादिवाक्यस्यैकदेशो वाक्यशब्देनोक्तः। गम्यमानार्थस्यापि सुखप्रतिपत्तये स्वरूपेणोपादानं वाक्याध्याहारः॥
बाल-मनोरमा
उपात्प्रतियत्नवैकृतवक्याध्याहारेषु च। ३८०, ६।१।१३४
प्रागुक्तयोरिति। भूषणसमवाययोरित्यर्थः। ननु "संपरिभ्या"मिति सुट् पदद्वयोपेक्षत्वाद्बहिरङ्गः। "लिटि धातो"रिति द्वित्वं तु प्रकृतिप्रत्ययमात्रोपेक्षत्वादन्तरङ्गम्। ततस्च संचस्कारेत्यत्र परमपि सुटं बाधित्वा द्वित्वे कृतेऽभ्यासात्प्रागेव सुटि प्राप्ते--