प्रथमावृत्तिः
सूत्रम्॥
प्लुतप्रगृह्या अचि नित्यम्॥ ६।१।१२१
पदच्छेदः॥
प्लुतप्रकृह्या १।३ अचि ७।१ १२६ नित्यम् १।१ प्रकृत्या ३।२१ १११ संहितायाम् ७।१ ७०
समासः॥
प्लुताश्च प्रगृह्याश्च प्लुतप्रगृह्याः, इतरेतरद्वन्द्वः॥
अर्थः॥
प्लुताश्च प्रगृह्याश्च अचि प्रकृत्या भवन्ति नित्यम्॥
उदाहरणम्॥
प्लुताः -- देवदत्ता३ अत्र न्वसि। यज्ञदत्ता३ इदमानय॥ प्रगृह्याः -- अग्नी इति। वायू इति। खट्वे इति। माले इति॥
काशिका-वृत्तिः
प्लुतप्रगृह्या अचि ६।१।१२५
प्लुताश्च प्रगृह्याश्च अचि प्रकृत्या भवन्ति। देवदत्त३अत्र न्वसि। यज्ञदत्त३इदम् आनय। आश्रयादत्र प्लुतः सिद्धः। प्रगृह्याः अग्नी इति। वायू इति। खट्वे इति। माले इति। अचि इत्यनुवर्तमाने पुनरज्ग्रहणम् आदेशनिमित्तस्य अचिः परिग्रहार्थम्। तेन इह न भवति, जानु उ अस्य रुजति जान्वस्य रुजति। प्रगृह्यादुकारात् परस्य अकारस्य सवर्णदीर्घत्वं प्रत्यनिमित्तत्वादत्र प्रकृतिभावो न भवति। नित्यग्रहणम् इह अनुवर्तते। प्लुतप्रगृह्याणां नित्यम् अयम् एव प्रकृतिभावो यथा स्याद्, इको ऽसवर्णे शाकल्यस्य ह्रस्वश्च
६।१।१२३ इत्येतन् मा भूतिति।
लघु-सिद्धान्त-कौमुदी
प्लुतप्रगृह्या अचि नित्यम् ५०, ६।१।१२१
एतेऽचि प्रकृत्या स्युः। आगच्छ कृष्ण ३ अत्र गौश्चरति॥
न्यासः
प्लुतपृगृह्रा अचि। , ६।१।१२१
"देवदत्ता ३ अत्र त्वसि" इति। "दूराद्धूते च"
८।२।८४ इति प्लुतः। ननु च "पूर्वत्रासिद्धम्()"
८।२।१ इत्यसिद्धः प्लुतः,
तदसतसतसय कथं शक्यते परकृतिभावो विधातुम्()? इत्यत आह--"आश्रयात्()" इत्यादि। आश्रयणमाश्रयः।
तदेतत्? प्रकृतिभावकार्यं विधातुं प्लुतस्य कार्यिण आश्रयणम्()। अस्मादेवात्र प्रकृतिभावे कत्र्तव्ये सिद्धः प्लुतः, अन्यथा तस्य कार्यित्वेनाश्रयणमनर्थकं स्यात्। "अग्नी" इत्यादि। "ईदूदेद्()द्विवचनम्()"
१।१।११ इत्यादिना अत्र प्रगृह्रसंज्ञा। अथाचीति किमर्थम्(),
यावताऽचीत्यनुवत्र्तत एव? इत्यत आह--"अचीत्यनुवत्र्तमाने" इत्यादि।
आदेशस्य निमित्तं योऽच्? तस्य परकृतिभावनिमित्तत्वेन परिग्रहो यथा स्यादित्येवमर्थं पुनरज्ग्रहणम्()। आदेशस्त्वत्र यत्राचि प्रकृतिभावः--जानु+उ अस्य रुजति जानू अत्य रुजतीति। न हि ज नुशब्दे य उकारो यश्च तदनन्तरः प्रगृह्रसंज्ञकस्तयोः सवर्णदीर्घत्वं प्रति प्रगृह्रसंज्ञकादुकारात परस्याकारस्य निमित्तभावः। इह च न भवति--जान्वस्य रुजतीति। तेन पूर्वपरयोरुकारयोर्य एकादेशः, स यद्यपि "अन्तादिवच्च" (६।१।
८५) इत्यादिवद्भावात्? प्रगृह्रसंज्ञकोकारग्रहणेन गृह्रते, तथापि यणादेशोऽकारे परतो भवत्येव। न ह्रत्राप्यकार एकादेशनिमित्तम्()। यदि तु विशिष्टाच्परिग्रहार्थं पुनरज्ग्रहणं न क्रियते, तदाऽञ्मात्रे प्रकृतिभावो विधीयमान इहापि स्यादेव। प्रगृह्रसंज्ञा पुनरकारपूरवस्योकारस्य "निपात एकाजनाङ्"
१।१।१४ इत्यनेन।
"नित्यगरहणम्()" इत्यादि। यदि नित्यग्रहणमिहानुवत्र्तते, तदाग्नी+इतीत्यादौ अस्य विधेः कृतार्थत्वात्त वायू+अत्रेत्यादौ परत्वाच्छाकलौ विधिः प्रसज्येत।
तस्मात्? प्रकृतिभाव एव यथा स्यात्()--इत्येवमर्थं नित्यग्रहणमिहानुवत्र्तते॥
बाल-मनोरमा
प्लुतप्रगृह्रा अचि नित्यम् ९०, ६।१।१२१
अथ प्रकृतिभाव इति। "निरूप्यते" इति शेषः। प्लतुप्रगृह्राः। वक्ष्यन्त इति। "दूराद्धूते चे"त्यादिना, ईदूदेदित्यादिना चेत्यर्थः। प्रकृत्येति। "प्रकृत्यान्तः पाद" मित्यतदस्तदनुवृत्तेरिति भावः। प्रकृत्या स्वभावेनाऽवस्थिताः स्युरित्यर्थः। सन्धयो न भवन्तीति यावत्। एहि कृष्णा३ अत्रेति। "दूराद्धूते चे"ति णकारादकारः प्लुतः। तस्य अकारे न सवर्णदीर्घः। हरी एताविति। "ईदूदे"दिति रेफादीकारः प्रगृह्रः। तस्य यणादेशो न भवति। ननु सर्वत्र विभाषेति पूर्वसूत्रे विभाषेत्यस्याऽस्वरितत्वादेव निवृत्तिसिद्धेरिह नित्यग्रहणं किमर्थमिति पृच्छति-नित्यमिति किमिति। उत्तरमाह-हरी एताविति। नित्यग्रहणे सत्येव हरी एतावित्यादौ "प्लुतप्रगृह्रा अची" त्ययमेव केवलः प्रकृतिभावः स्यादित्यर्थः। "यथा"शब्दो योग्यतायाम्। अयमेव प्रकृतिभावः प्राप्तुं योग्यः। स च नित्यग्रहणे सति प्राप्नुयादित्यर्थः। एवमग्रेऽप्येवंजातीयकेषु। "एव"शब्दव्यवच्छेद्यं दर्शयति-इक इति। "इकोऽसवर्णे शाकल्यस्य ह्यस्वश्चे"ति वक्ष्यमाणः ह्यस्वसमुच्चितः प्रकृतिभावो माभूत्=न भवेत्। माङि लुङ्। सर्वलकारापवादः। अकृते सति नित्यग्रहणे परत्वाच्छाकलह्यस्वसहितप्रकृतिभावः प्रसज्येत। नित्यग्रहणे कृते तु तत्सामथ्र्यादेव परमपि शाकलं ह्यस्वसमुच्चितप्रक-तिभावं "प्लुतप्रगृह्रा" इति केवलः प्रकृतिभावो बाधत इत्यर्थः।
तत्त्व-बोधिनी
प्लुतप्रगृह्रा अचि नित्यम् ७४, ६।१।१२१
प्लुतप्रगृह्राः। प्रकृति भावं प्रति प्लुतो नाऽसिद्धः, प्लुतमनूद्य प्रकृतिभावविधानसामथ्र्यात्। अचि किम्?, "जानु उ जानू"। उञः प्रगृह्रत्वेऽपीह सवर्णदीर्घः। "अची"त्यनुवर्तमाने पुनरचिग्रहणमादेशनिमित्ते एवाऽचि प्रकृतिभावः। तेन इहाप्येकादेशः स्यादेव-"जानु उ अस्य रुजति", "जानू अस्य रुजति"। इह "मय उञः" इति पाक्षिके वकारे तु "जान्वस्य रुजति"। एहि कृष्णेति। "दूराद्धूते चे"ति प्लुतः। प्राचा तु-"कृष्णा एही"ति उदाह्मतम्। तदसत्। "वाक्यस्य टेः"-इत्यधिकारात्। ह्यस्वसमुच्चितो मा भूदिति। अयं भावः-"हरी ईशा"वित्यादौ "प्लुतप्रगृह्राः"इत्येतत्सावकाशम्, "चक्री अत्रे"त्यत्र तु "इकोऽसवर्णे-" इति। ततश्च "हरी एता"वित्यत्र परत्वाद्ध्रस्वसमुच्चित एव स्यात्। नित्यग्रहणे तु कृते तत्सामथ्र्यात्परमपि बाधत इति।
चक्रयत्रेति। इह "स्कोः" इति कलोपो न, यणः कार्यकालपक्षे बहिरङ्गपरिभाषया असिद्धत्वात्, स्थानिवद्भावाच्च। "पूर्वत्रासिद्धे न स्थानिव"दिति तु नास्ति, "तस्य दोषः संयोगादिलोपलत्वणत्वेषु" इति वक्ष्यमाणत्वात्।
पार्(ामिति। पर्शूनां समूहः। "पर्(ाआ णस् वक्तव्यः" इति णस्। ओर्गुणस्तु न, "सिति चे"ति पदत्वस्य भत्वापवादत्वात्।