कन्ननुवर्तते, न प्रतिषेधः। बृहतीशब्दादाच्छादने वर्तमानात् स्वार्थे कन् प्रत्ययो भवति। बृहतिका। आच्छादने इति किम्? बृहतीछन्दः।
वृहत्या आच्छादने। "कन्" इति शेषः। बृहत्येव बृहतिका=उत्तरीयं वासः। तदाह--द्वौ प्रावार इति। अमरवाक्यमिदम्। अषडक्षा। स्वार्थे इति। शेषपूरणमिदम्। अषडक्ष, आशितङ्गु, अलङ्कर्मन्, अलम्पुरुष एभ्योऽध्युत्तरपदाच्च स्वार्थे खः स्यादित्यर्थः।