मृच्छब्दात् स्वार्थे तिकन्प्रत्ययो भवति। विकल्पः स्र्वत्रानुवर्तते। मृदेव मृत्तिका।
किमर्थं पुनस्तिकन्? विधीयते, न तकन्नेव विधीयेत, नित्यश्च स्त्रीप्रत्ययोऽयम्(),
तत्र टापि कृते "प्रत्ययस्थात्? कात्()" (७।३।
४४) इतीत्त्वेनैव सिद्धम्()? यत्र तर्हि लुग्भावः क्रियते, तत्र न सिद्ध्येत्()--पञ्चभिर्मृत्तिकाभिः क्रीतः पञ्चमृत्तिक इति। तत्र हि "अष्यद्र्धपर्वद्विगोः" (५।१।
२८) इत्यादिनाऽऽर्हीयस्य ठ
को लुकि कृते "लुक्? तद्धितलुकि"
१।२।४९ इति स्त्रीप्रत्ययस्यापि लुक्()।
तत्र यदि तकन्? विधीयते, तदा टापोऽभावादिकारो न न श्रूयेत, प्रक्रयागौरवं स्यात्(); इकगारस्य शास्त्रान्तरेण विधीयमानत्वात्()॥