सूत्रम्
खार्याः प्राचाम्॥ ५।४।१०१
काशिका-वृत्तिः
खार्याः प्राचाम् ५।४।१०१
द्विगोः, अर्धच् च इति द्वयम् अप्यनुवर्तते। खारीशब्दान्तात् द्विगोरर्धाच् च परो यः खारीशब्दः तदन्तात् तत्पुरुषाट् टच् प्रत्ययो भवति प्राचाम् आचार्याणां मतेन। द्वे खर्यौ समाहृते द्विखारम्, द्विखारि। त्रिखारम्, त्रिखारि। अर्धं खार्याः अर्धखारम्, अर्धखारि।
न्यासः
खार्याः प्राचाम्?। , ५।४।१०१
"द्विखारि" इति। "त्रिखारि" इति। पूर्ववदुपसर्जनह्यस्वः। क्वचिदर्धखारीति पाठः। अत्रैचोरुपसर्जनह्यस्वत्वे कृते "सर्वतोऽक्तिन्नर्थादित्येके" (ग। सू।५१) इति बह्वादिपाठान्? ङीष॥
बाल-मनोरमा
खार्याः प्राचाम् ७९३, ५।४।१०१
खार्या) प्राचाम्। खारीशब्दान्ताद्द्विगोरर्धपूर्वकात्खारीशब्दान्तात्तत्पुरुषाच्चेत्यर्थः। द्विखारमिति। द्वयोः खार्योः समाहार इति विग्रहे द्विगुः। टच्। "यस्येति च"। "स नपुंसक"मिति नपुंसकत्वम्। टजभावपक्षे "स नपुंसक"मिति नपुंसकत्वान्नपुंसकह्यस्वः। अर्धखारमिति। खार्या अर्धमिति विग्रहः। "अर्धं नपुंसक"मिति समासः, टच्, यस्येति च। क्लीबत्वं लोकात्। अर्धखारीति। पूर्ववत्समासः। टजभावपक्षे "परवल्लिङ्ग"मिति स्त्रीत्वम्। एकविभक्तावषष्ठ()न्तवचनादुपसर्जनत्वाऽभावान्न ह्यस्वः। "अर्धखारि" इति काचिद्ध्रस्वान्तपाठः। तदा क्लीबत्वं लोकात्, ततो नपुंसकह्यस्वः।
तत्त्व-बोधिनी
खार्याः प्राचाम् ६९८, ५।४।१०१
अद्र्धखारमिति। अद्र्धनावमिव क्लीबत्वं लोकात्। टज्वा स्याद्द्विगाविति। द्विगाविति किम्()। द्वयोरञ्जलिः---व्द्यञ्जलिः।