इव इत्यनुवर्तते, कनिति च। इवार्थे गम्यमाने कन्प्रत्ययो भवति, समुदायेन चेत् संज्ञा गम्यते। अप्रतिकृत्यर्थ आरम्भः। अश्वसदृशस्य संज्ञा अश्वकः। उष्ट्रकः। गर्दभकः।
संज्ञायां च। "क"निति शेषः। समुदायश्चेदिति। प्रकृतिप्रत्ययसमुदायश्चेत्प्रकृत्यर्थसदृशस्य संज्ञेत्यर्थः। पूर्वसूत्रेणैव सिद्धे किमर्थमिदमित्यत आह--अप्रतिकृत्यर्थमारम्भ इति तथाच प्रतिकृताविति निवृत्तम्। इव इति त्वनुवर्तत एव। तदाह--अ()आसदृशस्येति। अ()आसदृशश्य अमनुष्यस्य कस्यचित्संज्ञैषा। अ()आसदृशोऽयम()आकसंज्ञक इति बोधः।