पूर्वम्: ५।३।८६
अनन्तरम्: ५।३।८८
सूत्रम्
संज्ञायां कन्॥
५।३।८७
काशिका-वृत्तिः
संज्ञायां कन्
५।३।८७
ह्रस्वे इत्येव। ह्रस्वत्वहेतुका या संज्ञा तस्यां गम्यमानायां कन्प्रत्ययो भवति। पूर्वस्य अयम् अपवादः। वंशकः। वेणुकः। दण्डकः।
न्यासः
संज्ञायां कन्?।
, ५।३।८७
बाल-मनोरमा
संज्ञायां कन्
, ५।३।८७
संज्ञायां कन्। वंशक इति। ह्यस्वस्य वेणुजातिविशेषस्य नाम।