"तसिल प्रत्ययो भवति" इति। आदेशा एवामी तसिलादयः पञ्चम्यादीनां स्थाने कस्मात्र क्रियन्ते,
एवं हि विभक्तितसंज्ञा न कत्र्तव्या भवति? अशक्या एत आदेशाः कर्तुम्();
आदेशत्वे ह्रेषामव्यायात्? त्यपि
४।२।१०३--ततस्त्यः, यतस्त्य इत्यत्र "सुपो धातुप्रातिपदिकयोः"
२।४।७१ इति लुक्()। लभन्ते हि स्थानिवद्भावेन सुबादेशाः सुबाश्रयं कार्यम्()। तत इति, "अनुदात्तौ सुप्पितौ"
३।१।४ इत्यनुदात्तः। कुत इति, "धेङिति"
७।३।१११ इति गुणः। एतर्हीति, "सुपि च"
७।३।१०२ इति दीर्घः। तत्रेति,
"बहुवचनेझल्येत्? ७।३।१०३ इत्येत्वम्()। कुत्रेति, "अच्च घेः"
७।३।११८ इत्यौत्त्वम्()। ततः, तत्रेति, "ङसिङ्योः स्मात्स्मिनौ"
७।१।१५ इति स्मात्स्मिनौ। तस्मान्नादेशा अमी क्रियन्ते। यद्येवम्(), "तसु उपक्षये" (धा। पा।
१२१२) इत्यस्मात्? तस्यन्नित्यत्र धातुरूपस्य पञ्चम्याः परस्य "तसेश्च" (५।३।
८) इति तसिलादेशः प्राप्नोति? नैष दोषः; स्वार्थिकविज्ञानान्न भविष्यति। स्वार्थिका ह्रेते तसिलादयः, तन्मध्ये तसिलादेशो विधीयमानस्तथा विज्ञायते यथा स्वार्थे क्रियामाणः, स्वार्थिकत्वं नातिक्रामति। "अपादाने चाहीयरूहोः"
५।४।४५ इत्यनेन विहितस्तस्य स्व#आर्थिकस्य साथाने भवंस्तसिलपि स्वार्थिक एव भवति।
धातुस्तु प्रातिपदिकादर्थान्तरे वत्र्तत इति तदादेशो भवंस्तसिल्? स्वार्थिको न भवति॥