सूत्रम्
आहि च दूरे॥ ५।३।३७
काशिका-वृत्तिः
आहि च दूरे ५।३।३७
दक्षिणशब्दादाहिः प्रत्ययो भवति अस्तातेरर्थे, चकारादाच्, दूरे चेदवधिमानवधेर् भवति। दक्षिणाहि वसति, दक्षिणा वसति। दक्षिणाहि रमणीयम्, दक्षिणा रमणीयम्। दूरे इति किम्? दक्षिणतो वसति। अपञ्चमाः इत्येव, दक्षिणत आगतः।
न्यासः
आहि च दूरे। , ५।३।३७
बाल-मनोरमा
आहि च दूरे , ५।३।३७
आहि च दूरे। "दक्षिणाशब्दा"दिति शेषः। चादाजिति। तथा दूरे उक्तरूपत्रयेण सह चत्वारि रूपाणीति भावः।