तदः सप्तम्यन्तात् काले वर्तमानाद् दा प्रत्ययो भवति, चकाराद् दानीं च। तस्मिन् काले तदा, तदानीम्। तदो दावचनम् अनर्थकं, विहितत्वात्।
तदो दा च। सप्तम्यन्तात्कालवृत्तेस्तच्छब्दाद्दाप्रत्ययः, दानींप्रत्ययश्च स्यादित्यर्थः।
तदो दावचनमिति। वार्तिकमिदम्। विहितत्वादिति। "सर्वैकान्ये"त्यनेने"ति शेषः।